________________
१०२ साहित्यदर्पणः।
. [तृतीयःननु यदि विभावानुभावव्यभिचारिभिम्मिलितैरेव रसः, तत् कथं तेषामेकस्य द्वयोर्वा सद्भावेऽपि स स्यात् ? इत्युच्यते
४९ सद्भावश्चेद्विभावादेईयोरेकस्य वा भवेत् ॥ ३९ ॥
झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते । अन्यसमाक्षेपश्च प्रकरणादिवशात । यथा'दीर्घाक्षं शरदिन्दुकान्ति वदनं, बाहू नतावंसयोः, सङ्क्षिप्तंनिविडोन्नतस्तनमुरः, पार्श्वे प्रमृष्टे इव । एव रसः' इति नयेन रत्यादिविशिष्टानां तेषां लोकातीततयाऽवतरितत्वेन न पृथक् प्रतीतिः सम्पद्यत इति न तदा प्रत्येकं हेतुत्वम् । यथाहि- खण्डमरिचामीक्षाकर्पूराणि सम्मेलनात्पूर्व पृथक्पृथक् स्वस्वास्वादम्, सम्मेलनादुत्तरं पुनरभिन्नकमप्येकम् , तथैव-विभावादयः सम्मेलनात्पूर्व पृथक्पृथक् स्वखाखादम् , उत्तरं पुनः कमप्येकमभिन्नम् । न च तदा ते स्वयं पृथक् प्रतीयन्ते । तथा युक्तं छान्दोग्ये षष्ठेऽध्याये-“यथा सौम्य ! मधु मधुकृतो नितिष्ठन्ति नानाऽत्ययानां वृक्षाणारसान् समवहारमेकतार रसं गमयन्ति,ते यथा तत्र न विवेकं लभन्ते, अमुष्याहं वृक्षस्य रसोऽस्मिअमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सौम्येमाः सर्वाः प्रजाः संति सम्पद्य न विदुः सम्पद्यामहे ।" इत्यादि । इति ।
ननु विभावादयो रत्यादिविशिष्टा रस इत्युच्यते चेत्तर्हि यत्र तेषां कस्यचित् समावेशो नास्ति, कस्यचित् पुनरस्ति तत्र कथं रस इत्याशङ्कते-नन्वित्यादिना ।
ननु । यदि । मिलितैः समष्टयात्मनाऽवस्थितैः । विभावानुभावव्यभिचारिभिः। 'सम्भूये 'ति शेषः । अत एवात्र सहार्थेय तृतीया । एव 'रत्यादि' रिति शेषः । रसः। 'इति सिद्धान्त' इति शेषः । तत्तर्हि । तेषां विभावादीनां मध्य इत्यर्थः । निर्धारणार्थेयं षष्ठी । एकस्य विभावाद्येकतमस्येति भावः । द्वयोः विभावानुभावयोर्विभावव्यभिचारिणोरनुभावव्यभिचारिणोर्वेति भावः । वा । सद्भावे । अपि । स रसः । कथम् । स्यात् ? इति इत्याशङ्कथेत्यर्थः । उच्यते-४९ सद्भाव इत्यादि।
४९ चेत् । विभावादेः विभावादित्रिकस्येत्यर्थः । 'मध्ये इति शेषः । तथाच-विभावानुभाव्यभिचारिणां मध्ये इति निर्गलितोऽर्थः । 'अचोऽन्त्यादिटि ।' १११६४ इत्यादिवनिर्धारणार्थेयं षष्ठी। द्वयोर्विभावानुभावयोर्विभावव्यभिचारिणोरनुभावव्यभिचारिणोर्वेत्यर्थः । एकस्य विभावस्यानुभावस्य व्यभिचारिणो वेत्यर्थः । सद्भावः । भवेत् । तदा तर्हि । झटिति दुराग्रहमन्तरेति भावः । अन्यसमाक्षेपेऽन्यस्यान्ययोर्वा समाक्षेपः सम्यगाक्षेपो व्यन्जनया
मस्तथोक्ते। 'सती'ति शेषः । दोषस्त्रटिः । यत्र यदभावस्तत्र तदभावजन्या क्षतिरिति भावः । न । विद्यते। किन्तु निवर्तत इति भावः । यत्र तु दुराग्रहेणान्याक्षेपस्तत्र तु दोषतादवस्थमेवेति बोध्यम् । अत एव 'झटितिसमोः' सार्थक्य सङ्गच्छते ॥ ३९ ॥
अन्यसमाक्षेपश्च कथं स्यादित्याशङ्कयाह-अन्यसमाक्षेप इत्यादि ।
अन्यसमाक्षेपः । च । प्रकरणादिवशात् । आदिना वक्तृषोद्धव्यादिवैशिष्टयादेर्ग्रहणम् । 'सम्पद्यत' इति शेषः ।
उदाहरति-यथा-'दीर्घाक्षं शरदिन्दुकान्ती' ति ।
'दीर्घाक्षं दीर्घ आयते अक्षिणी नेत्रे यस्य तत्तथोक्तम् । कमलपत्राभ्यां मृगलोचनाभ्यामिवायताभ्यां नेत्राभ्यां सम्पन्नमिति भावः । शरदिन्दुकान्ति शरद इन्दुस्तद्वत् कान्तिश्शोभा यस्य तत्तथोक्तम् । शरत्कालिकस्य चन्द्रस्य खच्छत्वाद्रमणीयतरत्वादिदमुक्तम् । वदनं मुखम् । तथा-अंसयोः स्कन्धयोः । विषये सप्तमीयम् । नतौ विनतौ । बाह । तथा-निबिडोन्नतस्तनं निबिडौ परम्परं सँलग्नत्वात्पीनत्वाञ्च घनीभूतौ अथ च उन्नतौ तारुण्योद्रेकादुचतां प्राप्तौ स्तनौ कुचौ, न तु पयोधरौ (पयोधरत्वे तादृशपुष्टेरसौन्दर्यात्) यत्र तत्तथोक्तम् । उरो वक्षःस्थलम् । तथा-पार्वे