________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते-४८ प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते ।
१०१
ततः सम्मिलितः सर्वो विभावादिः सचेतसाम् ॥ ३८ ॥ प्रपाणकरसन्यायाच्चर्व्यमाणो रसो भवेत् ।
यथा खण्डमरिचादीनां सम्मेलनादपूर्व इव कश्चिदास्वादः प्रपाणकरले सञ्जायते, विभावादिसम्मेलनादिहापि तथा ।
ननु विभावादयो विभिन्ना अपि कथं रसास्वादे विभिन्नतया न प्रतिभासन्ते ? इत्याशङ्कते - नन्वित्यादिना ।
ननु । तर्हि “ विभावाद्याः कारणान्येव" इत्युक्तदिशा विभावादीनां विभिन्नात्मनैव कारणत्वमभिमतं चेत् ! तदेत्यर्थः । रसास्वादे रसास्वादावसर इति भावः । तेषाम् । “ विभावादीनाम्” इति शेषः । कथम् । एकोSभिन्नः । प्रतिभासः प्रतीतिः । प्रतिभासनं प्रतिभास इति भावे घञ् प्रत्ययः । ' एक प्रतिभास' इति समस्तपाठेऽपि स एवार्थ: । विभिन्नकारणानां विभिन्न कार्य्यतयैव परिणामस्य ( प्रतीतेः ) 'उचितत्वा' दिति शेषः । विभावादेरतीतस्यापि रसास्वादकारणत्वाभिधानं तज्ज्ञानाभिप्रायेणेति बोद्धव्यम् । इति इत्याशङ्कायामित्यर्थः । उच्यते ४८ प्रतीयमानइत्यादि ।
४८ सचेतसां सहृदयानां काव्यभावना परिपक्वधिषणानामिति यावत् । प्रथमं पूर्वम् । ' रसानुभवा दिति शेषः । प्रतीयमानः प्रतीतिपथं प्रतिपद्यमानः । विभावादिः । आदिनाऽनुभावव्यभिचारिणोर्ग्रहणम् । प्रत्येकं पृथक्पृथक् । हेतुः कारणम् । विभावोऽनुभावो व्यभिचारी चेति त्रय एव रसानुभवात्प्राक् कारणभूता इति भावः । ततः तदनन्तरं रसानुभवावसर इति यावत् । सर्वः । सम्मिलितः पार्थक्यं परित्यज्य रत्यादिविशिष्टः सन् समष्टात्मनाऽवस्थितो विभावादिरिति भावः । प्रपाणकर सन्यायात् प्रपीयते इति प्रपाणं तेन गर्वित इति प्रपाणकः, सोऽसौ रसस्वस्य न्यायस्तस्मात् तमनुसृत्येत्यर्थः । ' ल्युट् च' ३।३।११५ इति ल्युट् । ' उपसर्गाद्बहुलम्' ८।४।२८ इति णत्वम् । 'अवक्षेपणे कन् ।' ५।३।९५ इति कन् । ल्यबर्थेयं पञ्चमी । चव्यमाणश्चर्वणया विषयीक्रियमाण इति भावचर्वणा च स्वाभिन्नाह्नादमयी काऽपि वृत्तिः । रसः । भवेत् । रसस्य रसात्मनाऽनुभवावसरे विभावादयस्त्रयोsपि रत्यादिविशिष्टाः सम्मिलिता अभिन्ना अवतिष्ठन्त इति भावः ॥ ३८ ॥
पाणकर सन्यायं विवृणोति - यथेत्यादिना ।
यथा । खण्डमरिचादीनाम् । आदिनाऽऽमीक्षाकर्पूरयोर्ग्रहणम् । तत्र खण्डः शुद्धा शर्करा पानविशेषो वा, मरिचं प्रसिद्धम् । आमीक्षा नृते क्वथिते तप्ते पयसि दभः सम्पर्कात् सम्पद्यमानः कोऽपि रसः कर्पूरं प्रसिद्धम् । 'खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः । खण्ड: पानान्तरे भेदे' इति मेदिनी, 'आमीक्षा सा शृतोष्णे या क्षीरे स्यादेधियोगतः ।' इत्यमरश्च । सम्मेलनात् । अपूर्वोऽननुभूतपूर्वः । इव । इदमुत्प्रेक्षार्थम् । कश्चित् अनिर्देश्यस्वरूपः । आस्वादः। प्रपाणकरसे । सञ्जायते । तथा । विभावादिसम्मेलनाद्विभावानुभावव्यभिचारिणामुपजीव्योपजीवकभावेन सम्मिल्यावस्थानात् । इहास्मिन् रस इति यावत् । अपि । 'आस्वादः सञ्जायते' इति च पूर्वतो - Sन्वेति । इत्यर्थः ।
इदं तत्त्वम् - रसानुभवात्प्रथमं 'विभावोऽयम्,' 'अनुभावोऽयम्' इत्यात्मिका प्रतीतिः सम्भवतीति विभावादीनां प्रत्येकं हेतुत्वम् । रसानुभवावसरे तु न तथा प्रतीतिः, किन्तु - ' विभावादिभिः सम्भूय सचेतसां स्थायी भाव
१ विवृतिकारास्तु - इवेत्यपि उपमाघटकमेवामनन्ति, तथाहि - ' यथा - खण्डादिचतुष्टय मेलकाज्जायमाने प्रपाणकद्रवे माधुर्यादिविलक्षणो विशिष्य निर्देष्टुमशक्य आस्वादो रसाख्यगुणविशेष इव विभावादिचतुष्टय मेलकाज्जायमाने. शृङ्गारादिरसेऽप्याह्लादः सञ्जायते इत्यन्वयः । “देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः ||" इत्यादाविव सप्तम्यन्तप्रथमान्तपदार्थयोरुपमाद्वयमुपस्थापयतोर्यथेवशब्दयोर्न पौनरुक्त्त्यम् । अत एव रसास्वादपदयोः ष्टत्वादुपमानोपमेयभावः ।' इति विवृतिः । विभावादीनां चतुष्टयत्वं च रत्याद्यैकतममादाय सात्त्विकभावान् वा पृथग्गणयित्वेति बोध्यम् ।