________________
१०० साहित्यदर्पणः ।
[ तृतीयःविभावादीनां यथासङ्ख्यं कारणकार्यसहकारित्वे कथं त्रयाणामेव रसोद्बोधे कारणत्वम् ? इत्युच्यते
४७ कारणानि च कार्याणि सहकारीणि लोकतः ।
रसोद्धोधे विभावाद्याः कारणान्येव ते पुनः ॥ ३७॥
मिति यावत्, एतेनैव परिपोषं गतस्य रत्यादेनिर्वेदादेश्चात्यन्तास्वादयोग्यतासम्भवात् । एवं च-आस्वादपरिपोषातिपोषजनकत्वेनैवानुभावसञ्चारिणोरास्वादजनकत्वमिति सिद्धम् । न च शृङ्गारादावेव सञ्चारिव्यापारस्यापि स्वीकारौचित्यम् , न तु निर्वेदादावपीति शङ्कयम् , शृङ्गारादाविव निर्वेदादावपि प्रतीयमाने सञ्चार्य्यन्तरसम्भवात् । अत्रेदं सङ्कलनम्- अर्थस्तावत् विभावादीनां व्युत्पत्तिप्रदर्शनपुरःसरं स्फुटीकृत एव। अथेदं बोद्धव्यम् , विभावनं विभावस्य, अनुभावनमनुभावस्य, सञ्चारणं पुनः सञ्चारिणो व्यापारः, अत्रापि कारणत्वं विभावस्य, कार्य्यत्वमनुभावस्य, सहकारित्वं पुनः सञ्चारिणो रूपम्। तदेवंसञ्चारित्वं नाम रत्यादेः कार्यविशेषरूपत्वम् , सहकारित्वं पुनः कारणविशेषरूपत्वम् , अथ कथङ्कारं कार्यविशेषात्मनाऽभिमतस्य निर्वेदादे रसान्तरे वा रत्यादेः सञ्चारिणः कारणविशेषरूपत्वं सङ्घटते? इति चेत्! साधनस्यानुवादिमते स्वकारणानुमितौ मनसः सहकारितया लोके तथा व्यपदेशात् । न च तथाऽपि निर्वेदादे रत्यादिकार्य्यतयाऽनुभावतैव युक्ता, न पुनः सञ्चारितेति शङ्कयम् , व्यापारवैलक्ष्यण्येन फलवलक्षण्याद् व्यपदेशकैलक्षण्यौचित्यात् । इति । विभावनादिव्यापारस्य च यदवच्छेदकत्वं तद्दर्शितमेव स्वयं ग्रन्थकृता, तस्य च लोकोत्तरत्वात् बिभावादेरपि लोकातीतत्वं निर्बाधम् । तत्पुना रसस्य लोकातीतत्वे न कस्यचिद्विप्रतिपत्तिः। रसस्यालौकिकत्वं पुनर्वेदान्तिनां सिद्धान्ते ब्रह्मानन्दसादृश्यमधिरोहति । इति।
विभावादीनां रसोद्बोधे कारणमात्रत्वं व्यवस्थापयितुमुपक्रमते-विभावादीनामित्यादिना।
विभावादीनां विभावानुभावसञ्चारिणाम् । यथासङ्ख्यमुद्देशकमपूर्वकमिति भावः । कारणकार्यसहकारित्वे विभावस्य कारणत्वे, अनुभावस्य कार्य्यत्वे, सञ्चारिणः पुनः सहकारित्वे सति सिद्ध इति भावः। त्रयाणां विभावादीनामित्यर्थः । एव 'न त्वेकैकस्य' इति शेषः । रसोद्धोधे । कथम् । कारणत्वम् ? इतीत्याशङ्कायामिति भावः । उच्यते-४७ कारणानीत्यादि।
४७ लोकतो लोकनयेनेत्यर्थः । विभावाद्या विभावानुभावसञ्चारिभावा इत्यर्थः । 'क्रमात्' इति शेषः । कारणानि । च । कार्याणि । तथा । सहकारीणि तदभिधेयानि कारणानि । 'भवन्ती' ति शेषः । पुनः । ते विभावाद्याः कारणकार्यसहकारिरूपाः। रसोदोधे । कारणानि 'निरुक्तविभावनादिव्यापारत्रयबलाद्रत्यादे. रास्वादात्मकत्वेनोत्पादकत्वादि' ति शेषः । एव 'न तु कार्याणि न वा सहकारीणी' ति शेषः ॥ ३७॥
अत्र तर्कवागीशा:-"ननु विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः इति मुनिवचनाद्विभावादीनां समुदितानामेव कारणत्वं वाच्यम् । तथा सति कारणान्येवेति बहुवचनमनुपपन्नम् । तादृशस्थले एकवचनस्यैव युक्तत्वात् । 'तृणारणिमणि' न्यायेन प्रत्येकं कारणताप्रत्ययप्रसङ्गाच्च । अत एव-काव्यप्रकाशे, “शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥" इत्यत्र “त्रयः समुदिता हेतुर्न तु हेतवः" इत्युक्तम्। उच्यते, कारणपदस्य एकधर्मावच्छिन्नकार्यतानिरूपितकारणतापरत्वे हि एकवचनम्, कारणतामात्रपरत्वे तु बहुवचनं साधु। प्रकृते रत्यादेः कार्य्यभूतयोरप्यनुभावव्यभिचारिभावयो रसरूपतोत्पत्तौ कारणत्वमिति कारणतामात्रे तात्पर्य्यम्, न तु तादशकारणतायाम् । काव्यप्रकाशनिर्वचनस्य तु कार्यकारणभावप्राहकतया कार्यताऽवच्छेदकेऽपि तात्पर्यम् ।" इत्याहुः ।
-
१ यथाऽमिं प्रति तृणारणिमणीनां प्रत्येकं कारणत्वं तथा यत्र प्रत्येकं कारणत्वं प्रसज्येत तत्रायं तृणारणिमणिन्यायः प्रसज्यत इत्यत आह-तृणारणिमणिन्यायेनेति बोध्यम् । २ नेदं युक्तम् , हस्तामलकादीनां व्युत्पत्त्यभ्यासावन्तराऽपि शक्त्यैव काव्योत्पत्तेः । अत एवाहुः-"प्रतिभैव कवीनां काव्यकरणकारणं, व्युत्पत्त्यभ्यासौ तस्या एव संस्कारकारको, न तु काव्यहेतू ।" इति । विस्तरस्तु काव्यरसायने तस्य च सुधाप्रपायां प्रतिपादितोऽस्माभिः । इति दिक् ।