________________
पारच्छेदः)
रुचिराख्यया व्याख्यया समेतः। ६९ धीरोदात्तो धीरो-द्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्यय-मुक्तः प्रथमश्चतुर्भेदः ॥ ५६ ॥ स्पष्टम् । तत्र धीरोदात्तः
७० अविकत्थनः क्षमावा-नतिगम्भीरो महासत्त्वः ।
स्थेयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥ ५७ ॥ अविकत्थनोऽनात्मश्लाघाकरः । महासत्त्वो हर्षशोकाद्यनभिभूतस्वभावः । निगूढमानो धिनयच्छन्नगर्वः। दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा-रामयुधिष्ठिरादिः । अथ धीरोद्धतः--
तस्य निरुक्तस्वरूपस्य नायकस्य भेदास्तान् । आह-६९ धीरोदात्त इत्यादिना ।।
६९ प्रथमो नायकनायिकादीनां मध्ये प्रथम गणनामार्ग प्राप्तः, प्रियपत्यपेक्षयाऽपरेषां गौणत्वात् प्रियपत्याख्यो मुख्यो नायक इति वा । अयम् । धीरोदात्तो धीरश्वासा उदात्त इति तथोक्तः । धीरो धैर्यसम्पन्नः, उदात्त उदारः । तथा । धीरोद्धतो धीरोऽसा उद्धत उद्दण्ड इति तथोक्तः । च तथा । धीरललितो धीरोऽसौ ललितः सुभगत्वादियुक्त इति तथोक्तः । अथ धीरप्रशान्तो धीरोऽसौ प्रशान्तः प्रकृतितो जितचित्तः (कामक्रोधाद्यनभिभूतचित्तः) इति तथोक्तः । इतीत्येवम् । चतुर्भेदश्चत्वारो भेदा यस्य स इति तथोक्तः । उक्तः। 'भरतादिभि' रिति शेषः । अत्रोपगीतिश्छन्दः । तल्लक्षणं च यथोक्तम्-'आाद्वितीयकेऽधे यद्गदितं लक्षणं तत्स्यात् । यद्यभयोरपि दलयोरुपगीति तो मुनिबूंते ॥' इति ॥५६॥
नात्र किश्चिद्गूढार्थ पदमित्याह-स्पष्टम् । इति । अथ क्रमेणैषामपि स्वरूपं लक्षयितुमुपक्रमते-तत्रेत्यादिना । तत्र तेषु धीरोदात्तादिषु मध्य इति यावत् । धीरोदात्तः । 'उच्यते' इति शेषः । ७० भविकत्थनइत्यादिना ।
७. अविकत्थनो न विकत्थत आत्मानं श्लाघत इति तथोक्तः । 'नन्दिप्रहिपचादिभ्यो ल्युणिन्यचः' ।३।१।१३४ इति ल्युः । यद्वा-न विकत्थनं यस्य स इति तथोक्तः । विकत्थ्यत इति विकथनम् । 'ल्युट्च ।' ३।३।११५ इति ल्युट् । 'युवोरनाको ।' ७११ इत्यनादेशः । क्षमावान क्षमा कृतागसि दण्डं पातयितुं सामर्थेऽपि सहनम् , साऽस्यास्तीति तथोक्तः । अतिगम्भीरोऽत्यन्तं गम्भीरोऽबहिःप्रकाश्यान्तर्भाव इति तथोक्तः । महासत्त्वो महत्सत्त्वं स्वभावो यस्य तथोक्तः । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वव्यवसायासुवित्तेष्वस्त्री तु जन्तुषु ॥' इति मेदिनी । 'आन्महतः समानाधिकरणजातीययोः ।' ६।३।४६ इत्याकारोऽन्तादेशः । महत्त्वं च हर्षायुद्रेकानभिभूतत्वम् । स्थेयान नितान्तं स्थिरः । 'प्रियस्थिरस्फिरोरु...वृन्दारकाणां प्रस्थस्फ.. वृन्दाः ।' ६।४।१५७ इति स्थादेशः । अतिसङ्कटेऽपि न्यायपर इति भावः । निगूढमानो निगूढो नितान्तं गोपितो मानोऽभिमानो येन सः । हो दृढोऽचलो व्रतः प्रतिज्ञा यस्य स तथोक्तः । 'नियमो व्रतमस्त्री' इत्यमरः । धीरोदात्तः । कथितः । अत्राछन्दः । तल्लक्षणं चोकं प्राक् ॥ ५७ ॥
अथ कारिकायाः कठिनाशं सुगमयति-अविकत्थन इत्यादिना ।
अधिकत्थनस्तत्पदार्थ इत्यर्थः । अनात्मश्लाघाकर आत्मश्लाघाकारिणो व्यतिरिक्तः । 'इति बोध्य' इति शेषः । महासत्त्वस्तत्पदार्थ इत्यर्थः । हर्षशोकाधनभिभूतस्वभावो हर्षः पुत्रजन्मादिरूपः, शोकः पुत्रमरणादिरूपः, ता आदी येषां ( कामक्रोधादीनाम् ) तैरनभिभूतः स्वभावो यस्य स तथोकः । 'इति बोध्य' इति शेषः । निगूढमानस्तत्पदार्थ इत्यर्थः । विनयच्छन्नगर्थो विनयेन च्छन्नस्तिरोहितो गर्यो यस्य तथोक्तः । 'इति बोध्य इति शेषः । दृढव्रतस्तत्पदार्थ इत्यर्थः । अङ्गीकृतनिर्वाहको'ऽङ्गीकृतं सुकृतिनः परिपालयन्ती' त्युक्तस्वरूपः । 'इति बोध्य' इति शेषः । यथा । रामयुधिष्ठिरादिः । आदिपदेन नलहरिश्चन्द्रादेर्ग्रहणम् ।
अथ द्वितीयं लक्षयितुमाह-अथ । धीरोद्धतः । 'उच्यते' इति शेषः । ७१ मायापर इल्यादिना ।