________________
દવાલોક या व्यापारवती रसान् रसयितुं काचित् कवीनां नवा दृष्टिा परिनिष्ठितार्थविषयोन्मेधा च वैपश्चिती। ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं
श्रान्ता नैव च लब्धमब्धिशयन ! त्वद्भक्तितुल्यं सुखम् ।। इत्यत्र विरोधालङ्कारेणार्थान्तरसमितवाच्यस्य ध्वनिप्रभेदस्य सङ्कीर्णत्वम् ।
वाच्यालङ्कारसंसृष्टत्वं च पदापेक्षयैव । यत्र हि कानिचित्पदानि वाच्यालङ्कारभाञ्जि कानिचिच्च ध्वनिप्रभेदयुक्तानि । यथा
दीर्घाकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ अत्र हि मैत्रीपदमविवक्षितवाच्यो ध्वनिः, पदान्तरेष्वलङ्कारान्तराणि । संसृष्टालङ्कारसङ्कीर्णो ध्वनिर्यथा
दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि ।। अत्र हि समासोक्तिसंसृष्टेन विरोधालङ्कारेण सङ्कीर्णस्यालक्ष्यक्रमव्यङ्ग्यस्य ध्वनेः प्रकाशनम्, दयावीरस्य परमार्थतो वाक्यार्थीभूतत्वात् । संसृष्टालङ्कारसंसृष्टत्वं ध्वनेर्यथा- ...
अहिणअपओअरसिएसु पहिअसामाइएसु दिअहेसु । सोहइ पसारिअगिआणं णच्चिों मोरवन्दाणम् ।। (अभिनवपयोदरसितेषु पथिकश्यामायितेषु (सामाजिकेषु) दिवसेषु ।
शोभते प्रसारितग्रीवाणां (गीतानां) नृत्तं मयूरवृन्दानाम् ॥ इति च्छाया) अत्र ह्युपमारूपकाभ्यां शब्दशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य ध्वनेः संसृष्टत्वम् ॥४४॥
एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
संख्यातुं दिमात्रं तेषामिदमुक्तमस्माभिः ॥४५॥ अनन्ता हि ध्वनेः प्रकाराः । सहृदयानां व्युत्पत्तये तेषां दिङ्गात्रं कथितम् ।।४५।।