________________
रसगङ्गाधरः।
सीतां परित्यक्तवतो भगवतः श्रीरामभद्रस्येयमुक्तिः । अत्र सीतापरित्यागरूपोऽपराधस्तजन्यं दुःखं वा विभावः । पतितसाम्यरूपखापकर्षभाषणमनुभावः। यदाहुः
'चिन्तौत्सुक्यान्मनस्तापाद्दौर्गत्याच्च विभावतः । अनुभावात्तु शिरसोऽप्यावृत्तेर्गात्रगौरवात् ॥
देहोपस्करणत्यागादैन्यं भावं विभावयेत् ॥' इति । '. 'दौर्गत्यादेरनौजस्यं दैन्यं मलिनतादिकृत् ।' इति च ।
अत्र हतकेन मया विवासिता न तु विधिनेत्येतस्यार्थस्य पतितोपमयैव परिपोषः, न तु शूद्राद्युपमया । यतः शूद्रस्य जात्यैव श्रुतिदौर्लभ्यं विधिना कृतम् । पतितस्य तु ब्राह्मणादेविधिना. श्रुतिसुलभत्वे खभावेन कृतेऽपि तेनैव तथाविधं पापमाचरता खतः श्रुतिर्दूरीकृतेति तस्य पतितेन साम्यम् । तस्याश्च श्रुत्येत्युपमालंकारो दैन्यमेवालंकुरुते । तथा मयेति सेति चोपादानलक्षणामूलध्वनिभ्यां कृतघ्नत्वकृतज्ञात्वनिर्दयत्वदयावतीत्वाधनेकधर्मप्रकाशनद्वारा तदेव परिपोष्यते । सेति स्मृत्या च लेशतः प्रतीयमानया ।
काभावादाह-तजन्यमिति । चिन्तीत्सुक्यादिरूपविभावत्रयतः, शिरसोऽप्या(भ्या) वृत्त्यादिरूपानुभावत्रयतो दैन्यं भावं जानीयादित्यर्थः । वचनान्तरमाह-दौर्गत्यादे. रिति । अनौजस्यमोजोगुणाभावः । सर्वं वाक्यं सावधारणमिति न्यायलभ्यमर्थमाहन तु विधिनेति । जात्यैव खभावेनैव । तेनैव पतितेनैव । तथाविधं पातित्यजनकम् । तस्य रामस्य । तस्याः सीतायाः । साम्यमित्यस्यानुषङ्गः । एवालमिति । अलंकुरुत एवेत्यर्थः । न तु स्वयं प्रधानं येन गुणीभूतव्यङ्ग्यलापत्तिरिति भावः । उपादानलक्षणा. मूलध्वनिभ्यामिति । खार्थमुपादायेतरार्थलक्षणमुपादानलक्षणा । लक्ष्यतावच्छेदकं चातिक्लेशे तदत्यकत्वं मत्पदस्य । वनवाससखीलमित्यादि च तत्पदस्य । व्यङ्ग्यार्थमाह-- कृतघ्नत्वेत्यादि । यथाक्रममन्वयः । तदेवेति । दैन्यं परिपोष्यत एवेत्यर्थः । न तु प्राधान्यं येन दैन्यध्वनिलोच्छेद इति भावः । सेतीति । यतस्तेन तद्धर्मप्रकाशोऽतो लेशतोंशतः प्रतीयमानया सेति स्मृत्या च दैन्यं परिपोष्यत एवेत्यस्यानुषः । न तु प्राधान्यं येन स्मृतिध्वनित्वं स्यात्, न दैन्यध्वनिलमिति भावः । यत्र चिन्तायाम् ।