________________
काव्यमाला।
किमनिष्टं मम भविष्यतीत्याकारश्चित्तवृत्तिविशेषः शङ्का॥. उदाहरणम्'विधिवञ्चितया मया न यातं सखि संकेतनिकेतनं प्रियस्य ।
अधुना बत किं विधातुकामो मयि कामो नृपतिः पुनर्न जाने ॥' .अत्र राजापराधो विभावः । मुखवैवर्णोदय आक्षेप्या अनुभावाः । इयं तु भयाधुत्पादनेन कम्पादिकारिणी, न तु चिन्ता। __ आधिव्याधिजन्यबलहानिप्रभवो वैवर्ण्यशिथिलाङ्गत्वदृग्भ्रमणादिहेतुर्दुःखविशेषो ग्लानिः ॥ यथा
'शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव ।
प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥' अत्र प्रियाविरहो विभावः । मधुरवीक्षणैरेवेत्येवकारेण बोध्यमाना प्रत्युद्गमचरणनिपतनाश्लेषादीनां निवृत्तिरनुभावः । न चात्र श्रमः शङ्कयः । कारणाभावात् । केचित्तु व्याध्यादिप्रभवबलनाशं ग्लानिमाहुः । तेषां मते चित्तवृत्त्यात्मकेषु भावेषु नाशरूपाया ग्लानेः कथं समावेश इति ध्येयम् । यद्यपि 'बलस्यापचयो ग्लानिराधिव्याधिसमुद्भवः ।' इति लक्षणवाक्यादपचयशब्देन नाश एव प्रतीयते, तथापि प्रागुक्तानुपपत्त्या बलनाशजन्यं दुःखमेव बलापचयशब्देन विवक्षितम् ।
दुःखदारिद्यापराधादिजनितः खापकर्षभाषणादिहेतुश्चित्तवृत्तिविशेषो दैन्यम् ॥ उदाहरणम्
'हतकेन मया वनान्तरे वनजाक्षी सहसा विवासिता । .. अधुना मम कुत्र सा सती पतितस्येव परा सरखती ॥'
भावरूपवस्तुनः । उपयोगिता पोषकता । विधिदैवम् । इयं तु शङ्का । तुरेवार्थे । सुषमा शोभाविशेषः । श्रमस्तदाख्यो भावः । कारणेति। तच्च स्फुटीभविष्यति । लक्षणेति । मुन्युक्तेल्यादिः । अनुपपत्तिरसमावेशरूपा । विवक्षितमिति । एवं तु क्वचिदन्थोऽपि सुयोज इति भावः । हतकेन हतसदृशेन । भाग्यरहितेनेति यावत् । वनजाक्षी जलजाक्षी । सहसा कारणं विनैव । परा उत्कृष्टा सरखती । श्रुतिरित्यर्थः । विनिगम