________________
७६
काव्यमाला।
व्यत्यान्तरन्यायेनेत्यपरे मन्यन्ते । विभावानुभावौ चात्र व्यञ्जको । न त्वेकसिन्न्यभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरव्यञ्जकतयावश्यमपेक्ष्यते । तस्यैव प्राधान्यापत्तेः । वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनुभवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्गयत्वेन नान्तरीयकतया तनिमानमावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः। यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं सति गुणीभूतव्यङ्गयत्वापत्तिः । पृथग्विभावानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्य भावान्तरगुणीभूतस्यैव] गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते । यदि तु कचित्संभवतस्तदा न वार्यते । हर्षादयस्तु-हर्षस्मृतिव्रीडामोहधृतिशताग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्राससुप्तविबोधामविहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारचपलताः प्रतिपक्षकृतधिक्कारादिजन्मा निवेदश्चेति त्रयस्त्रिंशव्यभिचारिणः । गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् । एतेन वात्सल्याख्यं पुत्राद्यालम्बनं रसान्तरमिति परास्तम् । उच्छृङ्खलताया मुनिवचनपराहतत्वात् ।
तत्र इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः ॥
पादितमेतदधस्ताद्रन्थकृता । सापि तद्गतानां तेषां तथाभिव्यक्तिरपि । व्यङ्या. न्तरेति । रसापेक्षया भिन्नं यद्ययं वस्वलंकारादि तद्रीयेत्यर्थः । तथा च रसापेक्षयापकर्षः सूचितः । अत्र भावे । तस्यैव व्यभिचार्यन्तरस्य । प्रकरणादीनां तात्पर्य नियामकलेन न तदापत्तिरित्याशयेन सिद्धान्तमाह-वस्तुतस्त्विति । तदीयेति । प्रधानभावीयेत्यर्थः । नान्तरीयकत्वे हेतुरयम् । अत एवाग्रे 'अत एव नान्तरीयकस्य' इति वक्ष्यति । तनिमानमिति । ऋशिमानमित्यर्थः । विनिगमनाविरहादाह-अमर्षादौ वेति । एवं सति व्यभिचार्यन्तरस्य प्रधानभावेऽङ्गत्वे सति । भावशरीरनिविटहर्षादीनाह-हर्षादय इति । एतेन पुत्रादिविषयरतेर्मुनिना भावलगणनेनेत्यर्थः । तदाह-उच्छृखलेति । तत्र हर्षादीनां मध्ये । देवेत्यादि उत्पत्त्यन्तो विभावो यत्र