________________
काव्यमाला।
झयद्वयघटितसंयोगस्य सकृत्प्रयोगो यथा' 'अयि मन्दस्मितमधुरं वदनं तन्वनि यदि मनाकुरुषे ।
अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥ नन्वत्र ककारद्वयसंयोगस्य हल्घटितखात्मसंयोगत्वेनैव निषेधात्कखसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्तृतीयसंयोगस्य चासंभवात्सवर्णझयद्वयसंयोगनिषेधो निरवकाश इति चेत्, न । सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् । अन्यथा मनाक्कुरुष इति निर्दोषं स्यात् ।
महाप्राणघटितसंयोगो यथा. 'अयि मृगमदबिन्दु चेद्भाले बाले समातनुषे ।' उत्तरार्धं तु प्राचीनमेव ।
एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिका प्रियाण्यपि मधुररसे न प्रयुञ्जीत । एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्च संभवतोऽपि कविर्न निबध्नीयात् । यतो हि ते रसचर्वणायामन्तर्भवन्तः सहृदयहृदयं खाभिमुखं विदधाना रसपराङ्मुखं विदधीरन् । विप्रलम्भे तु सुतराम् । यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि खातत्र्यमावहन्पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति । यदाहुः
ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥'
मिति । अधुना द्वितीयेऽह्नि । अयीति । अयि तन्वनि, यदि वदनं मनाक मन्दस्सितमधुरं कुरुषे तर्हि अधुनैव । न तु कालान्तरे । हन्तेति हर्षे । चन्द्रस्य साम्राज्यं शमितं कलय । जानीहीत्यर्थः । कखेति । खादिधातुपाठे इति भावः । व्यङ्गयेति । व्यायाखादान्यो यो योजनाविशेषः । पदार्थानां तदपेक्षा नेत्यर्थः । यतो हीति । निपातसमुदायो हेतौ । सुतरामिति । पूर्वोक्तसर्वानुषङ्गः । तनीयानपि पदार्थो रजःकणः पदार्थैकदेशश्च खातव्यं वाभिमुखलं. कुर्वनित्यर्थः । निबन्धनं शक्तावपि प्रमादिवरूपं