________________
रसगङ्गाधरः।
टवर्गझयां प्राचुर्य यथा'वचने तव यत्र माधुरी सा हृदि पूर्णा करुणा च कोमलेऽभूत् । अधुना हरिणाक्षि हा कथं वा कटुता तत्र कठोरताविरासीत् ॥' 'अधुना सखि तत्र हा कथं वा गतिरन्यैव विलोक्यते गुणानाम्' इति त्वनुगुणम् । रेफघटितसंयोगस्यासकृत्प्रयोगो यथा'तुलामनालोक्य निजामखर्व गौराङ्गि गर्व न कदापि कुर्याः ।।
लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥' यदि तु 'तुलामनालोक्य महीतलेऽस्मिन्' इति निर्मीयते तदा साधु ।
हलां ल-म-न-भिन्नानां खात्मना संयोगस्यासकृत्प्रयोगो यथा-'विगणय्य मे निकाय्यं तामनुयातोऽसि नैव तन्याय्यम् ।' ल-म-नानां खात्मना संयोगस्तु न तथा पारुष्यमावहति । यथा'इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते। जलदालिमयं जगद्वितन्वन्कलितः क्वापि किमालि नीलमेघः ॥'
झयद्वयघटितसंयोगस्य यथा-. ... 'आ सायं सलिलभरे सवितारमुपास्य सादरं तपसा । .........
. अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ॥..........
अत्र द्वितीयाधमरम्यम् । सरसिजकुलेन संप्रति भामिनि ते मुखतुलाधिगता' इति तु साधु ।
लीलाः। चपला विद्युत् । एतेनान्यत्सर्वं रमणीयमिति सूचितम् । वचन इति । हे कोमले, तव यत्र वचने सा माधुरी, खान्ते पूर्णा करुणा चाभूत् । हे हरिणाक्षि, अ. धुना । हेति खेदे । कथमिव तत्र यथाक्रमं कटुता कठोरता चाविरासीदित्यर्थः । अत्रोत्तरार्धे टवर्गझयां नैकव्येन प्राचुर्य बोध्यम् । अत एवाह-अधुनेति । अखर्व गर्वमित्यन्वयः । गहनं काननम् । साध्विति । एकत्र सत्त्वेऽपि प्राचुर्याभावः । हकारघटितसंयोगस्यासकृत्प्रयोगोदाहरणं त्रुटितमत्र । निकाय्यं निवासम् । तां सपत्नीम् । नामिकोक्तिर्नायकं प्रति । वहतीति । अतस्तदन्यत्वं निवेचितमिति भावः । इय