________________
- Go
'काव्यमाला ।
यदि तु 'दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं ' इत्यादि क्रियते तदा
सर्वमेव रमणीयम् । विसर्गप्राचुर्यं यथा—
" सानुरागाः सानुकम्पाश्चतुराः शीलशीतलाः । हरन्ति हृदयं हन्त कान्तायाः खान्तवृत्तयः ॥ ' अत्र शकारद्वयसंयोगान्तं पूर्वार्धं माधुर्याननुगुणम् । जिह्वामूलीयप्राचुर्यं यथा—
'कलितकुलिशघाताः केऽपि खेलन्ति वाताः कुशलमिह कथं वा जायतां जीविते मे ।
अयमपि बत गुञ्जन्नालि माकन्द मौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ '
अत्र द्वितीयजिह्वामूलीयपर्यन्तमननुगुणं माधुर्यस्य । यदि च 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः ' इति विधीयते, तदा नायं दोषः ।
उपध्मानीयप्राचुर्यं यथा—
‘अलकाः फणिशावतुल्यशीला नयनान्ताः परिपुङ्खितेषुलीलाः । चपलोपमिता खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥' अत्र द्वावुपध्मानीयावेव न शान्तानुगुणौ ।
1
त्येव । परिवेषच्छलेनेति भावः । यदि त्विति । दन्तकिरणरम्यं कमलशोभापहारी - त्यर्थः । हरन्ति । ममेति शेषः । नायकोक्तिरियम् । पूर्वार्धं तदवयवभूतम् । जिह्वेत्यस्य विसर्गादेशेत्यादिः । एवमग्रेऽपि । कलितेति । नायिकोक्तिः सखीं प्रति । कलितः कृतः कुलिशवद्वज्रवद्धातो यैस्तादृशाः केऽपि विलक्षणा वाताः खेलन्ति क्रीडां कुर्वन्ति । अत इह देशे मम जीविते कुशलं कथं जायताम् । वाशब्दः पादपूरण इवार्थे वा । कारणान्तरमाह - अयमिति । हे आलि, माकन्दतरुमौलावा म्रतरुमस्तके गुञ्जन्नयमपि चञ्चरीको भ्रमरः । बतेति खेदे । मदीयां चेतनां चुलुकयति । चुलुकवदापिबतीत्यर्थः । मलयाचलस्थतरुस्थितसर्पमुखनिःसृता इत्यर्थः । अत एव कृतान्ताः । अत्र सकूत्सत्त्वेऽपि प्राचुर्याभावः । अलका इति । यस्या इति शेषः । पुङ्खयुक्तबाणसदृश