________________
काव्यमाला।
- एकपदगतस्य तु तथा नाश्रव्यम् । यथा—'जाग्रता विचितः पन्थाः शात्रवाणां वृथोद्यमः' । परसवर्णकृतस्य तु संयोगस्य सर्वथा दीर्घाद्भिन्नपदगतत्वाभावान्मधुरत्वाच्चानन्तर्य न मनागप्यश्रव्यम् । यथा—'तां तमालतरुकान्ति-' इत्यादिपद्ये (६४ पृष्ठे) । अत्र तामित्यत्र नीमित्यत्र च परसवर्णस्य पूर्वपदभक्ततया न संयोगो भिन्नपदगतः । प्रत्येकं संयोगसंज्ञेति पक्षेऽपि भिन्नपदगतः संयोगो न दीर्घादव्यवहितपरः । नवाम्बुदेत्यत्र त्वेकादेशस्य पदद्वयभक्ततया दीर्घाद्भिन्नपदगतत्वे सत्यव्यवहितोत्तरत्वं यद्यपि परसवर्णकृतसंयोगस्य भवति तथाप्यत्र भिन्नपदगतत्वमेकपदगतभिन्नत्वं विवक्षितमित्यदोषः । असकृत्तु सुतराम् । यथा-'एषा प्रिया मे क गता त्रपाकुला' । इदं चाश्रव्यत्वं काव्यस्य पङ्गुत्वमिव प्रतीयते । अथ खेच्छया संध्यकरणं सकृदप्यश्रव्यम् । यथा-'रम्याणि इन्दुमुखि ते किलकिञ्चितानि' । प्रगृह्यताप्रयुक्तं त्वसकृदेव । 'अहो अमी इन्दुमुखीविलासाः' एवमेव च य-व-लोपप्रयुक्तम् । 'अपर इषव एते कामिनीनां दृगन्ताः' । कथं तर्हि'भुजगाहितप्रकृतयो गारुडमन्त्रा इवावनीरमण ।
तारा इव तुरगा इव सुखलीना मन्त्रिणो भवतः ॥' इति भवदीयं काव्यमिति चेदकृत्वैव यलोपं पाठान्न दोषः । एवं रोरु
गतस्येत्यस्य संयोगस्य दीर्घानन्तर्यमिति शेषः । न दीर्घादव्यवेति । परसवर्णेनैव व्यवधानादिति भावः । समस्ते पदे विशेषमाह-नवाम्बुदेति । अदोष इति । वस्तुत एकपदगतत्वेन तत्त्वाभावादिति भावः । असकृत्त सुतरामिति । भिन्नपदगतस्य संयोगस्य दीर्घानन्तर्यमसकृच्चेत्तर्हि सुतरामश्रव्यमित्यर्थः । अश्रव्यत्वमंशे इति शेषः । काव्यस्य पङ्गुखमिवेत्यन्वयः । रसाद्यप्रतीतेस्तत्त्वमिति भावः । किलकिञ्चितानि हावविशेषा इत्यर्थः । प्रयुक्तं तु संध्यकरणमित्यनुषङ्गः । एवमग्रेऽपि । असकृदेवेति । अन्यथा शास्त्रानर्थक्यं स्यादिति भावः । यवलोपे 'लोपः शाकल्यस्य' इति । तत्र यलो. पोदाहरणमाह-अपर इति । इषव इति 'इव त' इति पाठान्तरम् । भुजगेति । हे पृथ्वीनाथ, तवामात्याः गारुडमन्त्रा इव भुजगाहितप्रकृतयः, तारा इव तुरगा इव सुखलीना इत्यन्वयः। भुजगानां सर्पाणां विटानां चाहिता प्रकृतिर्येषाम् । सुखेष्वासक्ताः । सुष्टु खे आकाशे लीनाः । सुष्टु खलीनं येषां ते तादृशाश्वेत्यर्थः । उपसंहरतिएवमिति । उक्तप्रकारेणेत्यर्थः । सर्वेऽपि वर्णानां खानन्तर्यमित्यादिनोक्ताः । तत्र