________________
रसगजाधरः।
स्वीषन्निर्माणमार्मिकैकवेद्यम् । एतदप्यसकृच्चेत्ततोऽधिकत्वात्साधारणैरपि वेयम् । 'खग कलानिधिरेष विजृम्भते' । 'इति वदति दिवानिशं स धन्यः' । पञ्चमानां मधुरत्वेन खवानन्तर्य न तथा । यथा—'तनुते तनुतां तनौ' । खानन्तर्य त्वश्रव्यमेव । यथा-'मम महती मनसि व्यथाविरासीत् । एतानि चाश्रव्यत्वानि गुरुव्यवाये नापोद्यन्ते । 'संजायतां कथंकारं काके केकाकलखनः' ।
यथा वा'यथा यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता । तथा तथा तत्त्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ॥' इदं तु दीर्घव्यवाये । संयोगपरव्यवाये तु
'सदा जयानुषङ्गाणामङ्गानां संगरस्थलम् ।
रङ्गाङ्गणमिवाभाति तत्तत्तुरगताण्डवैः ॥ इदं तु बोध्यम्-गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्रव्यत्वमपवदति । तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारथकारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव । एवं त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः । 'राष्ट्रे तवोष्ट्रयः परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः । अथ दीर्घानन्तर्य संयोगस्य भिन्नपदगतस्य सकृदप्यश्रव्यम् । असकृत्तु सुतराम् ।
'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ॥'
तयोरानन्तर्ये बोध्यमित्यन्वयः। ईषत्पदार्थमाह-निर्माणेति । साधारणैरपि निर्माणमामिकभिन्नैरपि । आद्योदाहरणमाह-खगेति । द्वितीयोदाहरणमाह-इतीति । चतुर्णा गतिमुक्खा पञ्चमानामाह-पञ्चेति । न तथा नाश्रव्यम् । स्वानन्तर्यमिति । पञ्चमानामित्यस्यानुषङ्गः । एतेषामपवादमाह-एतानिति । गुर्विति । गुरुवर्णव्यवधानेनेत्यर्थः । 'काक' इति पाठे संबोधनम् । तं प्रत्युक्तिः । युक्तस्तु सप्तम्यन्तपाठः । तत्त्वकथा ब्रह्मकथा । सर्वस्माद्विषयादाकृष्य । एकरसं खमयं ब्रह्ममयं च । गुर्दुषा, दीर्घः संयोगपरश्च । तत्राद्योदाहरणमुक्तम्, अन्यस्योच्यत इत्याह-इदं त्वत्यादि। गुरुव्यवायेन तदंशे दोषाभावो न साशे इत्याह-इदं विति। प्रायेणेति । श्रुत्यकटुत्वे तु न तथेति भावः। उपसंहरति-एवमादय इति । आद्योदाहरणं हरिणीत्यभिप्रायम् ।