________________
६४
काव्यमाला ।
अतस्त्रय एव गुणा इति मम्मटभट्टादयः । तत्र टवर्गवर्जितानां वर्गाणां प्रथमतृतीयैः शर्भिरन्तस्यैश्च घटिता, नैकट्येन प्रयुक्तैरनुखारपरसवर्णैः शुद्धानुनासिकैश्च शोभिता, वक्ष्यमाणैः सामान्यतो विशेषतश्च निषिद्धैः संयोगाद्यैरचुम्बिता, अवृत्तिर्मृदुवृत्तिर्वा रचनानुपूर्व्यात्मिका माधुर्यस्य व्यञ्जिका । द्वितीयचतुर्थास्तु वर्ग्य गुणस्यास्य नानुकूलाः, नापि प्रतिकूलाः, दूरतया संनिवेशिताश्चेत् । नैकट्येन तु प्रतिकूला अपि भवन्ति । यदि तदायत्तोऽनुप्रासः । अन्ये तु वर्गस्थानां पञ्चानामप्यविशेषेण माधुर्यव्यञ्जकतामाहुः ।
उदाहरणम्
'तां तमालतरुकान्तिलङ्घिनीं किंकरीकृतनवाम्बुदत्विषम् । स्वान्त मे कलय शान्तये चिरं नैचिकीनयनचुम्बितां श्रियम् ॥'
यथा वा
'खेदाम्बुसान्द्रकणशालिकपोलपालिरन्तः स्मितालसविलोकनवन्दनीया । आनन्दमङ्करयति स्मरणेन कांपि
रम्या दशा मनसि मे मदिरेक्षणायाः ॥'
प्रथमे पद्येऽतिशयोक्त्यलंकृतस्य भगवच्यानौत्सुक्यस्य भगवद्विषयकरतेर्वा ध्वन्यमानायाः शान्त एव पर्यवसानात्तद्गतमाधुर्यस्याभिव्यञ्जिका
1
तद्वदर्थवृत्तित्वादिति भावः । उपसंहरति--अत इति । अथ यासु रचना स्वन्तर्भाव उक्तस्ता रचना आह— तत्रेत्यादिना । तत्र तासां मध्ये । शर्भिः शषसैः । 'अन्तःस्थाभिश्च' इति पाठः । यरलवैरिति तदर्थः । वक्ष्यमाणैरित्यस्यानुपदमित्यादि । अत्रत्तिर्वृत्तिसामान्याभाववती । बाधादाह - मृदुवृत्तिर्वेति । गुणस्यास्य माधुर्यस्य । नैकय्येन संनिवेशिताश्चेदित्यस्यानुषङ्गः । अपिनानुकूलत्वसमुच्चयः । तदेवाह – यदीति । तदायत्तस्तदधीनः । वर्गेत्यस्य टवर्गान्येत्यादिः । अत्रारुचिबीजमुक्तमेव । उदेति । उदाहरणमित्यर्थः । तामिति । हे खान्त मनः, तां श्रियं कृष्णमूर्तिशोभां शान्तये मे चिरं कलयेत्यर्थः । नैचिक्यो गावस्तन्त्र चुम्बितामित्यर्थः । स्वेदाम्ब्विति । गतोऽयं श्लोकः(५७पृष्ठे)। यद्यपि पाल्यये 'दोलायितश्रवणकुण्डल' इति तत्र पाठः, तथापि टवर्गस्य वर्ज्यत्वादाह – 'अन्तः स्थितालसविलोकन' इति । अत एवानयोर्मध्ये 'यथा वा -- स्मृतापि ' इति काचित्कोऽपपाठ इति बोध्यम् । अत एवाह — प्रथमे इति । तामित्यत्रेत्यर्थः !