________________
रसगङ्गाधरः।
एषाऽधर्मेणापि रिपुर्जेतव्य इति वदन्तं प्रति युधिष्ठिरस्योक्तिः । अत्र धर्मविषय आलम्बनम् । 'न जातु कामान्न भयान्न लोभाद्धर्म त्यजेज्जीवितस्यापि हेतोः' इत्यादिवाक्यालोचनमुद्दीपनम् । शिरश्छेदाद्यङ्गीकारोऽनुभावः । धृतिः संचारिणी । इत्थं वीररसस्य चातुर्विध्यं प्रपञ्चितं प्राचामनुरोधात् । .
. .... .... - वस्तुतस्तु बहवो वीररसस्य शृङ्गारस्येव प्रकारा निरूपयितुं शक्यन्ते। तथा हि-प्राचीन एव 'सपदि विलयमेतु' इत्यादि पद्ये 'मम तु मतिर्न मनागपैतु सत्यात्' इति चरमपादव्यत्यासेन पद्यान्तरतां प्रापिते सत्यवीरस्यापि संभवात् । न च सत्यस्यापि धर्मान्तर्गततया धर्मवीररस एव तद्वीरस्याप्यन्तर्भाव इति वाच्यम् । दानदययोरपि तदन्तर्गततया तद्वीरयोरपि धर्मवीरात्पृथग्गणनानौचित्यात् ।
एवं पाण्डित्यवीरोऽपि प्रतीयते । यथा- ... .. . . ............ 'अपि वक्ति गिरां पतिः खयं यदि तासामधिदेवतापि वा।
अयमस्मि पुरी हयाननस्मरणोल्लचितवाङ्मयाम्बुधिः ॥' अत्र बृहस्पत्याद्यालम्बनः समादिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण संचारिणा पोषित उत्साहो वक्तुः प्रतीयते । ननु चात्र युद्धवीरत्वम् । युद्धत्वस्य वादसाधारणस्य वाच्यत्वात् । इति चेत्, क्षमावीरे किं ब्रूयाः। यथा
'अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु। .. ... पातयतु वासिधारामहमणुमात्रं न किंचिदाभाषे ॥'...
क्षमावत उक्तिरियम् । . बलवीरे वा किं समादध्याः ।
तदन्तरिति । धर्मान्तर्गततयेत्यर्थः । तद्वीरेति । दानदयावीरयोरपीत्यर्थः । तासामधीति । गिरामधिष्ठात्री देवता । सरखतीत्यर्थः । हयाननो हयग्रीवः । तां धराम् । हे