________________
काव्यमाला ।
अथवैवं विन्यासः -
'न कपोतपोतकं तव स्पृशतु श्येन मनागपि स्पृहा । इदमद्य मया समर्पितं भवते चारुतरं कलेवरम् ॥' एषा शिबेः कपोतं श्येनं प्रति चोक्तिः । अत्र कपोत आलम्बनम् । तद्गतं व्याकुलीभवनमुद्दीपनम् । तस्य कृते स्वकलेवरार्पणमनुभावः । न चात्र शरीरदानप्रत्ययाद्दानवीरध्वनित्वापत्तिरिति वाच्यम् । श्येनकपो - तयोर्भक्ष्यभक्षकभावापन्नत्वेन शिबिशरीरस्यार्थिनोऽभावात्तदप्रतिपत्तेः । श्येनशरीरनिवेदनस्य कपोतशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात् ।
तृतीयो यथा
'रणे दीनान्देवान्दशवदन विद्राव्य वहति प्रभावप्रागल्भ्यं त्वयि तु मम कोऽयं परिकरः । ललाटोद्यज्वालाकवलितजगज्जालविभवो
भवो मे कोदण्डच्युतविशिखवेगं कलयतु ॥' एषा दशवदनं प्रति भगवतो रामस्योक्तिः । इह भव आलम्बनम् । रणदर्शनमुद्दीपनम् । दशवदनावज्ञानुभावः । गर्वः संचारी । वृत्तिरत्र देवानां प्रस्तावे तद्गतकातर्यप्रकाशनद्वारा वीररसानालम्बनत्वावगतयेऽनुद्धतैव । दशवदनप्रस्तावे तु देवदर्पदमनवीरत्वप्रतिपादनायोद्धतापि तस्यावज्ञया रामगतोत्साहानालम्बनत्वेन तदालम्बनस्य रसस्याप्रत्ययान्न प्रकर्षवती । भगवतो भवस्य तु परमोत्तमालम्बनविभावत्वात्तत्प्रस्तावे तदालम्बनस्यौजखिनो वीररसस्य निष्पत्तेः प्रकृष्टोद्धता ।
चतुर्थो यथा
'सपदि विलयमेतु राज्यलक्ष्मीरूपरि पतन्त्वथवा कृपाणधाराः । अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैति धर्मात् ॥'
प्रतिपत्तेरिति । शरीरदानाप्रतिपत्तेरित्यर्थः । नन्वेवं किमित्यर्पितमत आह— श्येन इति । निरुपाधिकस्थल एव दानप्रतीतिरिति भावः । परिकरो गात्रबन्ध आरम्भो वा कलयतु जानावङ्गीकरोतु वा । तद्गतेति । देवगतेत्यर्थः । देवदपैति । तद्दर्पदमनं यद्वीरलं तत्प्रेत्यर्थः । तस्य रावणस्य । तत्प्रस्तावे भवप्रस्तावे । तदालम्बनस्य भवाश्रयकस्य ।