SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३८ काव्यमाला । भ्यान्प्रत्युक्तिः । अत्र ं याचमान आलम्बनम् । तदुदीरिता स्तुतिरुद्दीपिका । कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः । मे इत्यर्था - न्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ । वृत्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी । तथा हि — उत्साहपोषकं कवचकुण्डलार्पणयोर्लघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका । उत्तरार्धे तु मौलितः प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता । ततः परं ब्राह्मणे सविन - यत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव । अतएवावेदयामीत्युक्तम् । न तु ददामि वितरामीति वा । इदं तु नोदाहरणीयम् - 'यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथामाकर्ण्यवनिमण्डलागतवियद्वन्दीन्द्रवृन्दाननात् । ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधः स्रवत्पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते ॥' अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः अवनिमण्डलागतवियद्वन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः ऊधः प्रस्नुतपीयूषप्रकरैरनुभावितः, असूयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः । " याचमान इन्द्रः । अरमणीयपदार्थमाह-तत्र लघुत्वेति । मे इत्यर्थान्तरेति । अनेकशो रणेषु क्षतजर्जरीभूतकलेवरलं लक्ष्यतावच्छेदकम्, सकलराज्यकोषादिदातृत्वं वा, रविकुन्तीसुतलं वा । स्वकीयलोकोत्तरेति । इदमेव च शक्यतावच्छेदकम् । तत्तदिति । तत्तदर्थानुरूपौ यावुद्रमविरामौ प्रारम्भसमाप्ती तच्छालितयेत्यर्थः । मौलितो मौलिमित्यतः । वक्ता कर्णः । ब्राह्मणे तद्वेष इन्द्रे । तन्मूलीभूतं सविनयित्वमूलीभूतम् । सुरेन्द्रसुरभिः कामधेनुः । तस्य राज्ञः स्तुतिस्तामाकर्ण्य तैः प्रावृट्पयोदायते वर्षामेघायते । बन्दीन्द्राः स्तुतिपाठ केन्द्राः | व्यावल्गन्मधु( न्थ ) रम् | कोपोऽमर्ष इत्यनर्थान्तरम् । ईर्ष्याक्षमा, गुणेषु दोषारोपोऽसूयेति भेदः । अस्यादिभिरिति । ईर्ष्याजनिका चासूयेति व्यङ्ग्यत्वमेवास्या इति भावः । कामगवी कामधेनुः । अत एव गुणी
SR No.023028
Book TitleRasgangadhar
Original Sutra AuthorN/A
AuthorJagannath Pandit, Durgaprasad Pandit, Vasudev Laxman Shastri
PublisherPandurang Jawaji
Publication Year1930
Total Pages552
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy