________________
४८६
काव्यमाला ।
इयं राज्ञा नलेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्रत्युक्तिः । अत्रापाद्यमानो वनवृत्तान्तोऽपि संनिहितत्वात्प्रकृत एवेति द्वयमपि प्रकृतम् । पुरुषसिंहापेक्षया वनस्य नपुंसकत्वान्यूनत्वम् । अंत एव किं चित्रमित्युक्तम् ।
'उदुम्बरफलानीव ब्रह्माण्डान्यति यः सदा । सर्वगर्वापहः कालस्तस्य के मशका वयम् ॥' अत्राप्रकृतेन ब्रह्माण्डादनेन समस्त भूतानामनित्यत्वं कैमुतिकन्यायेन प्रकृतं प्रतिपाद्यते ।
' न भवानिह मे लक्ष्यः क्षत्रवर्णविलोपिनः । के वा विटपिनो राम कुलाचलभिदः पवेः ॥'
रामं प्रति जामदम्यस्येयमुक्तिः । अत्र प्रतिवस्तूपमा सहावाक्यार्थः । तस्याश्च दलद्वयमुपमेयवाक्यार्थ उपमानवाक्यार्थश्च । तत्रोपमेय वाक्यार्थगतायामर्थापत्तावापाद्यमानस्तन्निमित्तभूतश्चेत्युभावप्यर्थौ प्रकृतौ । उपमानवाक्यार्थगतायां त्वप्रकृताविति । अनया दिशान्यदप्यूह्यम् ।
अत्र विचार्यतेनेयं वाक्यवित्संमतायामर्थापत्तौ निविशते । आपादकस्यार्थस्यापतितमर्थं विनानुपपत्तेरत्राभावात् । नाप्यनुमाने । आपाततोऽर्थस्यापादकासमानाधिकरणत्वेन व्याप्यत्वपक्षधर्मत्वयोर्दूरापास्तत्वात् । न च येन कारणेनैकार्थसिद्धिस्तेनैव लिङ्गेनापरार्थानुमानमिति वाच्यम् । अर्थान्तरसिद्धेरनुमित्यात्मकताविरहात् । यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकारः न तु भवत्येवेति नापि यद्यर्थातिशयोक्तौ । तस्या विपरीतार्थ एव द्वयोर्विश्रान्तेः । न चेह तथा आपादकस्य सिद्धत्वादापततश्च संभाव्यमानत्वाद्यथाश्रुत एव विश्रान्तेः । तस्माद्येन न्यायेनैकोऽर्थः सिद्धस्तेनैव न्यायेनापरोऽप्यर्थः सेद्धुमर्हतीत्येवंरूपेयमर्थापत्तिः । अस्यां चार्था - न्तरं लोकेऽविद्यमानमपि कविना स्वप्रतिभया कल्पयित्वा यद्यापाद्यते तंदालंकारत्वम् । यथा ‘फणिनां शकुन्तशिशवः' इत्यादौ । अन्यथा तु कैमुतिकन्यायतामात्रम् । यथा 'उदुम्बरफलानीव' इत्यादौ । प्राचीनरीत्या