________________
रसगङ्गाधरः।
४८५ अथार्थापत्तिः-- केनचिदर्थेन तुल्यन्यायत्वादर्थान्तरस्यापत्तिरर्थापत्तिः ॥
न्यायश्च कारणम् । सा च प्रकृतेन प्रकृतस्य, अप्रकृतेनाप्रकृतस्य, प्रकृतेनाप्रकृतस्य, अप्रकृतेन प्रकृतस्येति तावच्चतुर्भेदा प्रत्येकमर्थान्तरस्य साम्यन्यूनाधिक्यैीदशविधा । ततो भावत्वाभावत्वाभ्यां चतुर्विशतिभेदा । दिङ्मात्रेणोदाहियते--
'लीलालुण्ठितशारदापुरधियामस्मादृशानां पुरो
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेहालिशाः । अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धनि पदं धास्यन्ति सालावृकाः ॥' अत्र प्रकृतेनाप्रकृतस्यापाद्यमानस्य साम्यं मालारूपता च। . 'यदि ते चरणाम्बुजं हृदा वहतो मे न हतो विपद्गणः ।
अथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणैः ।।' अत्र न हत इति विद्यमानतारूपात्प्रकृतार्थाजितमित्यापाद्यमानस्याप्रकृतार्थस्य सर्वोत्कर्षेण वर्तनरूपस्याधिक्यम् । न चात्र विपद्गणस्यावस्थानमात्रेण तमोगणानामवस्थानमापादयितुमुचितम् , न तु जयः अनानुरूप्यात् , इति शक्यम् । भगवच्चरणसंनिधाने यद्येकस्य विपद्गणस्य खास्थ्यं तदा समुचित एव बहूनां तमोगणानां सूर्यसंनिधाने.जय इति न दोषः ।
'सदैव स्नेहाट्टै सुरतटिनि निष्किंचनजने
यदि त्वं नाधत्से सुरभिरिव वत्से मयि कृपाम् । तदा चिन्तारत्नत्रिदशपनिभूमीरुहमुखा
ददीरन्नर्थिभ्यः किमिति कणभिक्षामपि जडाः ॥' अत्राभावेनाभावापादनम् । स्नेहार्द्रजाह्नवीरूपप्रकृतार्थापेक्षया चिन्तारत्नादीनां जडत्वेन न्यूनत्वं चैतेष्वापाद्यमानमप्रकृतम् ।
'मामनुरक्तां हित्वा यदि राजन्पुरुषसिंह यातोऽसि । मुक्त्वा वनमिदमेष्यति वनलक्ष्मीमत्र किं चित्रम् ॥