________________
काव्यमाला।
अत्र हरिपादभजनादिकमेव तीर्थादिकं नान्यदित्यर्थस्तात्पर्यमर्यादया प्रतीयत इत्यार्थी प्रश्नपूर्विका च । 'तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रं
देवौ तस्याः प्रसवनिलयौ नाकिनोऽन्ये वराकाः । सा यत्रास्ते स हि जनपदो मृत्तिकामात्रमन्य
तां यो नित्यं नमति स बुधो बोधशून्यस्ततोऽन्यः ॥' अत्र मात्रादिपदैस्तीर्थत्वादिव्यावृत्तिः प्रतीयत इति शाब्दी शुद्धा । 'किं मित्रमन्ते सुकृतं न लोकाः किं ध्येयमीशस्य पदं न तोकाः।
किं काम्यमव्याजसुखं न भोगाः किं जल्पनीयं हरिनाम नान्यत् ॥' अत्र शाब्दी प्रश्नपूर्विका चेति प्राचां मतम् । अन्ये तु 'व्यावृत्तेरार्थत्व एव परिसंख्यालंकारः, अन्यथा तु शुद्धा परिसंख्यैव । यथा हेतुत्वस्यार्थत्व. एव हेत्वलंकारः' अन्यथा हेतुमात्रम् । अतो भेदद्वयमेवास्याः' इत्याहुः । अपरे तु "व्यावृत्तेरार्थत्वेऽपि नालंकारत्वम् । 'पञ्च पञ्चनखा भक्ष्याः, समे यजेत, रात्सस्य' इत्यादावपि तदापत्तेः । किं तु कविप्रतिभानिर्मिता या तादृशव्यावृत्तिस्तस्याः । यथा-'यस्मिशासति वसुमतीपाकशासने महानसेषु संतापः, शरधिहृदयेषु सशल्यता, मञ्जीरेषु मौखर्यम् , भेरीषु ताडनम् , कामिनीनां कुन्तलेषु कौटिल्यम् , गतिषु मान्द्यम्' इत्यादौ । अत्र हि प्रथमान्तार्थः कविप्रतिभया एकीकृत इति तद्वारा तत्प्रतियोगिकव्यावृत्तिनिर्मिता । एवं च 'सेवायां यदि साभिलाषमसि' इत्यत्र नान्यः सेव्य इत्यर्थस्य प्रतीतेः परिसंख्यास्तु, न तु परिसंख्यालंकारः । व्यावृत्तेर्वास्तवत्वेन कविप्रतिभानपेक्षणात् । 'किं तीर्थ हरिपादपद्मभजनम्' इत्यत्र तु प्रश्नपूर्वकं दृढारोपरूपकम् । अन्यथा 'न विषं विषमित्याहुब्रह्मखं विषमुच्यते' इत्यत्रापि परिसंख्यापत्तेः । 'किं शानं' इत्यंशे तु परिसंख्यामात्रम् । 'तीर्थ गङ्गा तदितरमपां निर्मलं संघमात्रम्' इत्यत्रापि परिसंख्यैव शुद्धा । प्रागुक्ताद्धेतोरनार्थत्वात् । तस्मात् 'महानसेषु संतापः' इत्यादिकमेवास्या उदाहरणम्" इत्याहुः ।
इति रसगङ्गाधरे परिसंख्याप्रकरणम् । एवं सति पूर्वविरोधं परिहरति-प्राचीनेति ॥ इति रसगङ्गाधरमर्मप्रकाशे परिसंख्याप्रकरणम् ॥