________________
४६६
काव्यमाला।
तादृशाधिकरणभिन्नत्वे मानाभावात् । अनयैव दिशापकर्षोऽप्युदाहार्यः । इदं तु बोध्यम्-एकविषये शृङ्खलाया अचारुत्वात्तदनुप्राणितः सारो न चारुतां धत्ते । तस्याः खाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदेऽनुल्लासात् । अत एवास्मिन्विषये वर्धमानकालंकारोऽन्यैरङ्गीकृतः । तल्लक्षणं च 'रूपधर्माभ्यामाधिक्ये वर्धमानकम्' इति कृतम् । तस्मात्कारणमालादिर्यथा शृङ्खलैकविषयः, न तथा सारः शक्यो वक्तुम् । एकविषयेऽलंकारान्तराभ्युपगमप्रसङ्गात् । 'गुणवरूपाभ्यां पूर्वपूर्ववैशिष्ट्ये सारः' इति तु लक्षणं सारस्य युक्तम् । स च क्वचिच्छृङ्खलानुप्राणितः क्वचित्खतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम् । एवं शृङ्खलाविषयाणामलंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलंकारत्वे सिद्धे शृङ्खलाया विरोधाभेदसाध
`दिवदनुप्राणकतैवोचिता, न पृथगलंकारता । तथात्वे मेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्तिवैलक्षण्यम् , अपि तूपमाविच्छित्तिरेवेति संप्रदायः । ननु केयं विच्छित्तिः । उच्यते—अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तजन्यत्वप्रयुक्ता चमत्कारिता वा विच्छित्तिः ।
___ इति रसगङ्गाधरे सारप्रकरणम् ॥ अथ काव्यलिङ्गम्
अनुमितिकरत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम् ॥
उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम् । अनुमानार्थान्तरन्यासयोरिणायानालिङ्गितान्तम् । उपमादिवारणायोपपादकत्वेनेत्यन्तम् । पञ्चम्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम् । तेन 'भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः' इत्यादौ नायमलंकारः । गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेनालंकारिकैः काव्यलिङ्गताभ्युपगमात् । तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावविविधम् । आद्यमपि प्राग्वदाह-अथेति । तच्च काव्यलिङ्गम् । अत्रापि अनयोरपि । वातं समूहः ।