________________
रसगङ्गाधरः।
अथ सारःसैव संसर्गस्योत्कृष्टापकृष्टभावरूपत्वे सारः॥ तत्रापि पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षाभ्यां द्वैविध्यम् । _ 'संसारे चेतनास्तत्र विद्वांसस्तत्र साधवः ।
साधुष्वपि स्पृहाहीनास्तेषु धन्या निराशयाः ॥' इमं चालंकारमेकानेकविषयत्वेन पुनर्द्विविधमामनन्ति । एकविषयतायामवस्थादिभेदाश्रयणमावश्यकम् । उत्कर्षापकर्षयोर्भेदनियतत्वात् । नह्यवस्थादिभेदकं विना किंचिदपि वस्तु खापेक्षया खयमधिकं न्यून वा भवितुं प्रभवति । एकविषय उत्तरोत्तरोत्कर्षो यथा'जम्बीरश्रियमतिलछ्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते खलु कनकाचलेन सार्धम् ॥'
अत्र पूर्वपूर्वावस्थाविशिष्टाभ्यां कुचाभ्यामुत्तरोत्तरावस्थाविशिष्टयोस्तयोरेवोत्कर्ष इत्येकविषयत्वम् । यद्यपि परिमाणभेदेन द्रव्यभेदोऽपि मतविशेषे शक्यते वक्तुम् , तथापि कुचत्वेनाभेदाश्रयणेन तत्राप्येकविषयत्वं सूपपादम्। यदि च वक्ष्यमाण एकाश्रये क्रमेणानेकाधेयस्थितिरूपः पर्यायोऽत्र प्रतीयते तदा सोऽप्यस्तु । नहि तेन पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षरूपः सारोऽन्यथासिद्धः शक्यः कर्तुम् । अनेकविषयः स एव यथा'गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् ।
जगदण्डादपि गुरवः प्रलयेऽप्यचला महात्मानः ॥' वेदेऽप्ययमलंकारो दृश्यते
'महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥' पूर्व तु गुणकृत उत्कर्षः, इह तु खरूपमात्रकृत इति विशेषः । न चात्र गुणकृत उत्कर्षों वाच्यः । पुरुषस्य निर्गुणत्वेनाभ्युपगमात् । न च तत्रापि विनाशरहितत्वादिर्गम्यमानो गुण उत्कर्षक इति वाच्यम् । तस्य प्राग्वदाह-अथेति। तत्रापि पुरुषेऽपि ॥ इति रसगङ्गाधरमर्मप्रकाशे सारप्रकरणम् ॥