________________
४६४
काव्यमाला।
अत्र स्थापकम् । . 'नार्यः स यो न खहितं समीक्षते न तद्धितं यन्न परानुतोषणम् । न ते परे यैर्नहि साधुताश्रिता न साधुता सा नहि यत्र माधवः ॥'
अत्रापोहकं पूर्वपूर्वस्योत्तरोत्तरम् । यद्यपि स्थापकेऽप्यपोहकत्वं गम्यते यो न खहितार्थदर्शी स न पण्डित इत्यादि, तथा अपोहकेऽपि स्थापकत्वम् , यो हितं समीक्षते स आर्य इत्यादि, तथापि शब्देन नोच्यत इत्यदोषः। 'धर्मेण बुद्धिस्तव देव शुद्धा बुद्ध्या निबद्धा सहसैव लक्ष्मीः । लक्ष्म्या च तुष्टा भुवि सर्वलोका लोकैश्च नीता भुवनेषु कीर्तिः ।। इह पूर्वेण पूर्वेण खाव्यवहितमुत्तरोत्तरं विशेष्यते । असिंश्चैकावल्या द्वितीये भेदे पूर्वपूर्वैः परस्य परस्योपकारः क्रियमाणो यद्येकरूपः स्यात्तदायमेव मालादीपकशब्देन व्यवह्रियते प्राचीनः । तथा चोक्तम्-'मालादीपकमायं चेद्यथोत्तरगुणावहम्' इति । तत्र मालाशब्देन शृङ्खलोच्यते दीपकशब्देन दीप इवेति व्युत्पत्त्या एकदेशस्थं सर्वोपकारकमुच्यते । तेनैकदेशस्थसर्वोपकारकक्रियादिशालिनि शृङ्खलेति पदद्वयार्थः । एवं च दीपकालंकारप्रकरणे प्राचीनैरस्य लक्षणाद्दीपकविशेषोऽयमिति न भ्रमितव्यम् । तस्य सादृश्यगर्भतायाः सकलालंकारिकसिद्धत्वात् । इह च शृङ्खलावयवानां पदार्थानां सादृश्यमेव नास्तीति कथंकारं दीपकतावाचं श्रद्दधीमहि । तेषां प्रकृताप्रकृतात्मकत्वविरहाच्च । विवेचितं चेदं सोदाहरणं दीपकप्रकरणेऽस्माभिरिति नेहातीवायस्यते । एतेन 'दीपकैकावलीयोगान्मालादीपकमिष्यते' इति यदुक्तं कुवलयानन्दकृता तद्धान्तिमात्रविलसितमिति सुधीभिरालोचनीयम् ।
इति रसगङ्गाधर एकावलीप्रकरणम् ।
पदार्थानाम् । तद्धान्तिमात्रेति । तत्रापि दीपकशब्दस्योपकारकपरत्वम् । अत एव तैर्दीपकप्रकरणात्पृथगेकावल्युत्तरमुक्तोऽयमित्येतदुक्तिरेव भ्रान्ता ॥ इति रसगङ्गाधरमर्मप्रकाश एकावलीप्रकरणम् ॥