________________
रसगङ्गाधरः।
४६७
शब्दान्तरार्थविशेषितशरीरम् , शुद्धैकसुबन्तार्थरूपं चेति द्वेधा । अत्राप्यायं साक्षात्परम्परया वा वाक्यार्थविशेषितम् , सुबन्तार्थमात्रविशेषितं चेति द्विभेदम् । तिङन्तार्थभूतमपि साक्षात्परम्परया वा वाक्यान्तरार्थविशेषितम् , सुबन्तार्थमात्रविशेषितं चेति द्विप्रकारम् । शुद्धभेदस्तु तिङन्तार्थस्य न संभवति । क्रियायाः कारकविशेषितत्वावश्यंभावात् । शिष्टमग्रे निरूपयिष्यते । उदाहरणम्
'विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितै
रवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः । हरन्ती लोकानामनवरतमेनांसि कियतां
कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ।' अत्र ह्यनन्यसाधारणतया प्रतिपादितस्य भगवत्या भागीरथ्या उत्कपस्यापाततोऽघटमानस्योपपादनायानवरतसकललोकपापहरणसमानाधिकरणः श्रमाभावः सुबन्तमात्रार्थविशेषितः सुबन्तार्थो विशेषवपुर्हेतुत्वेनोपात्तः ।
'त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधी ___ करं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः । इमं तं मामम्ब त्वमथ करुणाकान्तहृदये
पुनाना सर्वेषामघमथनदर्प दलयसि ॥' अत्र सकलदेवतीर्थदर्पदलनस्य सिद्धये खात्मपवित्रीकरणं वत्रा निबद्धम् । तच्च क्षुद्रत्वात्तादृशसिध्यसमर्थ विशेषकान्तरमाकाङ्क्षतीति तीर्थकर्तृकत्रपाकरणम् , कपालिप्रभृतिकर्तृककर्णमुद्रणं चेति वाक्यार्थद्वयं खात्मरूपकर्मद्वारा विशेषकमुपात्तम् । तद्विशिष्टं च तादृशपवित्रीकरणं भागीरथ्युपारूढं तादृशकार्योपपादनसमर्थमिति भवति हेतुः ।
'पद्मासनप्रमुखनिर्जरचित्तवृत्ति
दुष्प्रापदिव्यमहिमन्भवतो गुणौघान् । तुष्ट्रषतो मम नितान्तविशृङ्खलस्य
मन्तुं शिशो शिव न मन्तुमिहासि योग्यः ॥