________________
रसगङ्गाधरः ।
४५७
युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्तिः । एवं च ग्रन्था - न्तरगतानि लक्षणान्यतिप्रसक्तान्येव ।
यच्च किंचित्कार्यमारभमाणस्यासंभाविताशक्यवस्त्वन्तरनिर्वर्तनं च तृतीयो विशेषप्रकारः । एवं चैतदन्यतमत्वं विशेषालंकारसामान्यलक्षणम्' इति प्राञ्चः । तत्र प्रथमः प्रकारो द्विविधः – आधारान्तरगतत्वेनाधेयं वर्ण्यमानम्, निराधारत्वेन च । क्रमेणोदाहरणानि – 'अये राजन्नाकर्णय कुतुकमाकर्णनयन
त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् । त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे
मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥' अत्र दिमौलिगतत्वेन ।
'युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥ ' द्वितीयः प्रकारो यथा
'नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः ॥
तृतीयः प्रकारो यथा— ‘कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं
रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम् ।
दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृत
ज्वालाभिर्जगतीतलं कवलयन्कालानलो गोचरः ॥' अत्र रामदर्शनं कुर्वतां कालानलदर्शनरूपाशक्यवस्त्वन्तरनिर्वर्तनम् ।
ननु
इति
'लोभाद्वराटिकानां विक्रेतुं तकमानिश मटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' वक्ष्यमाणप्रहर्षणविषमालंकारयोगे
तृतीयप्रकारस्यातिव्याप्तिः ।
दधिविक्रयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाश
३९ रस०