________________
४५८
काग्यमाला।
क्यवस्त्वन्तरनिर्वर्तने तदभेदाध्यवसाननिबन्धनत्वं विशेषणम् । 'कालानलो वीक्षितः' इत्यनुपदमुदाहृते विशेषालंकारे यथा अशक्यवस्त्वन्तररूपकालानलवीक्षणं रामकालानलयोस्तद्दर्शनयोर्वा अभेदाध्यवसानेन निर्वर्तितम् , न तथा 'दधि विक्रेतुमटन्त्या' इत्यत्र महेन्द्रनीलमणिदर्शनमित्यदोषः । न च भगवति नीलमण्यभेदाध्यवसानेन निर्वर्तितमेव तदिति वाच्यम् । किंचित्कार्यमारभमाणस्येत्यत्र यत्कार्य विशेषणतया प्रविष्टं तेन सहाशक्यवस्त्वन्तरस्याभेदस्य विवक्षितत्वात् । प्रकृते च तक्रविक्रयेण सह नीलमणेरभेदस्यानध्यवसानात् । न चातिशयोक्त्या विशेषालंकारतृतीयप्रकारस्य गतार्थत्वं वाच्यम् । एतदुदाहरणे रामस्य विषयस्य कालानलेन विषयिणा निगरणाभावात् । नापि रूपकेण विषयविषयिणोः सामानाधिकरण्यविरहेणारोपासिद्धेः । न च स्मृत्या । कालानलस्य वीक्षणकर्मत्वश्रवणेन स्मृतिकर्मत्वासिद्धेः । तस्मादशक्यवस्त्वन्तरकरणं विशेषालंकारस्यैव प्रभेद इति प्राचामाशयः।
अत्र विचार्यते-विशेषालंकारस्यायं प्रभेद इति कथं विज्ञायते । नहि रूपकादिवदलंकारस्यास्य किंचित्सामान्यलक्षणमस्ति, येन तदाक्रान्तत्वेनाशक्यवस्त्वन्तरकरणत्वस्य तत्प्रकारतामभ्युपगच्छेम । न चान्यतमत्वमेव तथाविधमस्तीति वाच्यम् । अनेनैव प्रकारेणेतरालंकारभेदत्वस्यापि सुवचत्वात् । अनुगतलक्षणं विना प्राचीनोक्तिराज्ञामात्रमेव राज्ञामिति तदपेक्षया पृथगलंकारतोक्तिरेव रमणीया । अपि च 'येन दृष्टोऽसि देव त्वं तेन दृष्टो हुताशनः', 'तेन दृष्टा वसुंधरा' इत्यादी वस्त्वन्तरस्य हुताशनवसुधादर्शनादेरशक्यासंभावितत्वयोरभावात्प्रकृतालंकारासंभवेन निदर्शना खीक्रियते यदि, तदा 'येन दृष्टोऽसि देव त्वं तेन दृष्टः सुरेश्वरः' इत्यादौ 'विशेषालंकारेऽपि सैव शरणीक्रियताम् । नहि हुताशन इत्यत्र सुरेश्वर इत्यत्र च विच्छित्तिभेदोऽस्ति । एवं च प्राचीनानुसारेण 'कोदण्डच्युत-' इत्यादि यदस्माभिरुदाहृतं तदपि न विशेषसरणिमारोढुमीष्टे । एतेन त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणम्' इत्यादि कुवलयानन्दोक्तमुदाहरणं गतार्थम् । तस्मादिदमुदाहरणम्प्राग्वदाह-अथेति । उदाहरणं गतार्थमिति । अशक्यवस्वन्तरकरणकृता