________________
४५६
काव्यमाला ।
विप्राणामहं भक्तः, देवदत्तस्य पुत्रः खमातृभक्तः इत्यादौ मदीयदाररतानामिति, देवदत्तमातृभक्त इति च न कस्याप्यभ्रान्तस्य स्वरसवाहिनी प्रतीतिः । अत एव—'निजतनुःखच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः' इत्यत्र 'दण्डपादगता तनुः प्रतीयते । भवानीगता तु सा अपेक्षिता' इति व्युत्पन्नशिरोमणिभिर्मम्मटभट्टैः काव्यप्रकाशेऽभिहितम् । न चेदं श्रुतिकाटवादिवत्काव्यमांत्रविषयं दूषणमिति वाच्यम् । शब्दव्युत्पत्तौ काव्यस्यानन्तर्भावात् । मदीयदाररतानामिति, देवदत्तमातृभक्त इति च तात्पर्येण प्रागुक्तवाक्यप्रयोक्तुरनुपहसनीयतापतेश्च । किं च परस्परोपकारो हि खव्यधिकरणव्यापारसाध्य एव चमत्कारित्वाल्लक्षणघटकः, न तु खसमानाधिकरणतत्साध्योऽपि । तत्र हि तुषारशिशिरीकरणन्यायेनान्यव्यापारस्यानावश्यकतया चमत्कारिताविरहात् ।' इह हि धारातनूकरणाङ्गुलिविरलीकरणयोः कर्तृभ्यां खखकर्तृकचिरकालदर्शनार्थ प्रयुक्तयोस्तत्रैवोपयोगश्चमत्कारी, नान्यकर्तृकचिरकालदर्शन इत्यनुदाहरणमेवैतदस्यालंकारस्येति सहृदया विचारयन्तु ।
इति रसगङ्गाधरेऽन्योन्यालंकारप्रकरणम् । अथ विशेषालंकारः
प्रसिद्धमाश्रयं विना आधेयं वर्ण्यमानमेको विशेषप्रकारः । यच्चैकमाधेयं परिमितयत्किचिदाधारगतमपि युगपदनेकाधारगततया वर्ण्यते सोऽपरो विशेषप्रकारः ॥
प्राग्वदाह-अथेति । अनुपहसनीयतापत्तेश्चेति । अत्रेदं चिन्त्यम्-खशब्दादयो यद्विशेषणघटकास्तद्विशेष्यान्विततद्विशेष्येतराबोधका इति व्युत्पत्तेः समभिव्याहृतपदार्थे तद्बोधकलव्युत्पत्तेरेव चानुभवबलेन खीकारः । नहि पथिकस्तद्विशेष्यान्वित इति । अनुदाहरणमेवैतदिति । खखोपकारसत्त्वेऽपि परस्परोपकारोऽप्यस्त्येव । स न चमत्कारकारीति तु रिक्तं वचः । किं च यथातथा शब्दव्यत्यासेन पूर्वोत्तरार्धव्यत्यासेन चास्य पुनः पाठे परस्परोपकारस्यैव चमत्कृतस्य प्रतीतेस्तदभिप्रायेणोदाहरणत्वमेव । अपि च प्रकरणादिसहायेनापि परस्परोपकारप्रतीतिश्चमत्कृतैवेति चिन्यमिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽन्योन्यालंकारप्रकरणम् ॥