________________
रसगङ्गाधरः।
१५५
अथान्योन्यालंकारःद्वयोरन्योन्येनान्योन्यस्य विशेषाधानमन्योन्यम् ॥ विशेषश्च क्रियादिरूपः । यथा- 'सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया।
अलिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥' अत्र गुणरूपविशेषाधानम् । रुचेर्गुणत्वात् । न च विधानरूपक्रियात्मकविशेषाधानमिह शक्यम् । भावनासामान्यरूपस्य विधानस्याचमत्कारित्वेनाविशेषत्वात् ।
'परपूरुषदृष्टिपातवज्राहतिमीता हृदयं प्रियस्य सीता ।
अविशत्परकामिनीभुजंगीभयतः सत्वरमेव सोऽपि तस्याः ॥' - अत्र क्रियारूपविशेषाधानम् । - यत्तु
“यथोर्ध्वाक्षः पिबत्यम्बु पथिको विरलाङ्गुलिः ।
तथा प्रपापालिकापि धारां वितनुते तनुम् ॥' अत्र प्रपापालिकायाः पथिकेन खासक्त्या पानीयदानव्याजेन बहुकालं खमुखावलोकनमभिलषन्त्या विरलाङ्गुलिकरणतश्चिरं पानीयपानानुवृत्तिसंपादनेनोपकारः कृतः । तथा प्रपापालिकयापि खमुखावलोकनमभिलषतः पथिकस्य धारातनूकरणतश्चिरं पानीयदानानुवृत्तिसंपादनेनोपकारः कृतः ।" इति कुवलयानन्दकार आह । तन्न । तावदियं पदरचनैवायुष्मतों ग्रन्थकर्तुर्युत्पत्तिशैथिल्यमुद्रिति । तथा हि—खमुखावलोकनमभिलषन्त्या इत्यत्र खशब्दस्य प्रपापालिकाविशेषणघटकत्वेन प्रपापालिकाबोधकत्वमेव न्याय्यम्, न पान्थबोधकत्वम् । एवं खमुखावलोकनमभिलषत इत्यत्रापि पान्थबोधकत्वमेव, न त्वदिष्टप्रपापालिकाबोधकत्वम् । एवं स्थितेऽर्थासंगतिः स्पष्टैव । न च सर्वनाम्नां बुद्धिस्थप्रकारावच्छिन्ने शक्तत्वादिष्टबोधोपपत्तिरिति वाच्यम् । तदिदमस्मद्युष्मदादिष्विव तत्तद्विशेषव्युत्पत्तेरपि कल्पनीयत्वात् । सा च प्रकृते यद्विशेषणघटकत्वेन खनिजादयः शब्दा उपात्तास्तद्बोधका इत्येवंरूपा । तेन खदाररतानां