________________
४५४
काव्यमाला ।
अत्र सावकाशतयेत्यनेन कल्पितया आधेयन्यूनतयां आधारस्य महत्त्वं पर्यवस्यति । यदि तु सावकाशतयेति विशेषणं विश्वाश्रय इत्यत्रापि योज्यते तदा शृङ्खलारूपस्याधाराधिकालंकारस्येदमेवोदाहरणम् । 'ब्रह्माण्डमण्डले भान्ति न ये पिण्डीकृता अपि ।
परस्परापरिचिता वसन्ति त्वयि ते गुणाः ॥ '
अत्रोभयविधस्याप्यस्यालंकारस्य सामानाधिकरण्यम् । लक्षणे कल्पनमित्यनेन यत्राधाराधेययोरन्यतरस्य न्यूनत्वमधिकत्वं च वास्तवं तत्र नातिप्रसङ्गः । एवं च—
'काहं तमोमहदहंखचरामिवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः । वेदृग्विधाविगणिताण्डपराणुचर्या - वाताध्वरोमविवरस्य च ते महित्वम् ॥
इति श्रीभागवतदशमस्कन्ध ( १४|११ ) गतं ब्रह्मस्तुतिपद्यमस्यालंकारस्यानुदाहरणमेव । दिक्कालानवच्छिन्नस्य पारमेश्वरस्य भूम्नः सर्ववेदसिद्धत्वेन कविप्रतिभानुल्लिखितत्वात् । एतेन -
'रत्र कचिदाश्रिता प्रविततं पातालमत्र कचि - त्वाप्यत्रैव धरा धराधरजलाधारावधिर्वर्तते । स्फीतस्फीतमहो नभः कियदिदं यस्येत्थमेभिः स्थितै
र्दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ॥' इत्यलंकार सर्वस्वकारेण यदुदाहृतं तदपि प्रत्युक्तम् । इति रसगङ्गाधरेऽधिकालंकार प्रकरणम् ।
१. 'ननु ब्रह्माण्ड विग्रहस्त्वमपीश्वर एवेति चेत्तत्राह — काहमिति । तमः प्रकृतिः । महान्महत्तत्त्वम् । अहमहंकारः । खमाकाशः । चरो वायुः । अग्निः । वार्जलम् । भूश्च । प्रकृत्यादिपृथिव्यन्तैरेतैः संवेष्टितोऽण्डघटः स एव तस्मिन्वा स्वमानेन सप्तवितस्तिः कायो यस्य सोहं क्क, क्व च ते महित्वम् । कथंभूतस्य । ईदृग्विधानि यान्यविगणितान्यण्डानि त एव परमाणवस्तेषां चर्या परिभ्रमणं तदर्थं वाताध्वानो गवाक्षा इव रोमविवराणि यस्य यस्य तस्य तव । अतोऽतितुच्छत्वात्त्वयानुकम्प्योऽहमिति' इति भागवतटीका श्रीधरी.