________________
१५६
रसगङ्गाधरः। तु शुद्धम् । शान्तौ चिन्तायाः खरूपेणैव विपरीतत्वात् । यदि तु इष्टैषिणो भ्रान्तत्वाभिव्यक्तेस्तुल्यत्वात्वतः सिद्धे इष्टे तदनुकूलाभासप्रयोगोऽपीष्टैषिकर्तृको विचित्रमित्युच्यते, लक्षणे च विपरीतपदस्थानेऽननुकूलपदं न्यस्यते तदा इदमप्युदाहरणम् । यथा- ..
"विष्वद्रीचा भुवनमखिलं भासते यस्य धाम्ना. - सर्वेषामप्यहमयमिति प्रत्ययालम्बनं यः । तं पृच्छन्ति खहृदयगतावेदिनो विष्णुमन्या
नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥' अत्र जीवरूपेण सकललोकप्रत्यक्षसिद्धस्य परमेश्वरस्य प्रतिपत्त्यर्थं पराप्रति प्रश्नोऽनुकूलाभासः । मुख्यमनुकूलं तु खहृदयमेव । 'यत्साक्षादपरोक्षात्' इति वचनात् । न च कारणाननुरूपं कार्यमिति विषमभेदोऽयं वाच्यः । विषमे पुरुषकृतेरनपेक्षणात् । कार्यकारणगुणवैलक्षण्येनैव तद्भेदनिरूपणाच्च । .
इति रसगङ्गाधरे विचित्रालंकारप्रकरणम् । अथाधिकालंकारः
आधाराधेययोरन्यतरस्यातिविस्तृतत्वसिद्धिफलकमितरस्यातिन्यूनत्वकल्पनमधिकम् ॥ यथा'लोकानां विपदं धुनोषि तनुषे संपत्तिमत्युत्कटा
मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डसद्मोदरे
पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥' अत्र ब्रह्माण्डस्यातिसूक्ष्मत्वकल्पनेन कीर्तेराधेयायाः परममहत्त्वं फलितम् । तेन च व्याजस्तुतिः परिपोष्यते ।
'गिरामविषयो राजन्विस्तारस्तव चेतसः। सावकाशतया यत्र शेते विश्वाश्रयो हरिः॥'
विचित्राधिकालंकारौ स्पष्टौ।