________________
४५२
काव्यमाला। 'युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि ।। सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखात्रैश्च विपाटनानि ।' अत्राप्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षिप्ते प्रस्तुते पर्यवस्यति । एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्तः समालंकारोऽपि प्रपञ्चितः। __ यत्तु-विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्' इति विषमालंकारं लक्षितवता, 'तद्विपर्ययः समम्' इति समालंकारं लक्षयित्वा, 'तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्चरम एव भेदो गृह्यते । तद्विपर्ययस्यैव चारुत्वात् । न त्वाद्यभेदद्वयम् । तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य, वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात् । एवं चानुरूपसंघटनात्मक एव समालंकारः । न तु विषमालंकार इव भेदत्रयात्मकः' इत्यलंकारसर्वस्वकृतोक्तम् । विवेचितं च विमर्शिनीकृता—'कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा । नहि तस्या उपनिबन्धश्चारुतामावहति' इति । तदुभयमसत् । वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्लेषादिना धर्मैक्यसंपादनद्वारानुरूपतावर्णने, वस्तुतोऽनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्णने, च चारुताया अनुपदमेव दर्शितत्वात् । तस्मात्सममपि त्रिविधमेव ।
इति रसगङ्गाधरे समालंकारप्रकरणम् । अथ विचित्रालंकारःइष्टसिद्ध्यर्थमिष्टैषिणा क्रियमाणमिष्टविपरीताचरणं विचित्रम् ॥ विपरीतत्वं च प्रतिकूलत्वम् । यथा'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा- •
नन्तःशान्त्यै मुनिशतमतानल्पचिन्तां वहन्ति । तीर्थे मजन्त्यशुभजलधेः पारमारोदुकामाः
सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥' अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम् । यज्ञादिकर्मकरणस्य . यज्ञादीनां पाशत्वासिद्धौ बन्धमुक्तिविपरीतत्वासंगतेः । द्वितीयचरणगतं