________________
रसगङ्गाधरः।
न निवार्यते' इत्युक्तम् । तत्रोदाहरणे मामुच्चाटनं लम्भयसे इति द्विकर्मकत्वं कथम् । 'गति-' आदिसूत्रस्य प्राचीनरीत्या नियमविधित्वपक्षे लभेरण्यन्तकर्तुः कर्मत्वस्य व्यावर्तनात् । यदा तु
'परत्वादन्तरङ्गत्वादुपजीव्यतयापि च ।
प्रयोज्यस्यास्तु कर्तृत्वं गत्यादेविधितोचिता ॥ इति नवीनरीत्या अपूर्वविधित्वमुच्यते, श्रौतं णिजन्तार्थक्रियायाः प्राधान्यमुत्सृज्यार्थ पूर्वक्रियाया एव प्राधान्यमनुरुध्यते तदा त्वप्रसक्तिरेवेति । उच्चाटनं मया लम्भयसे इति तु भाव्यम् । एवमपि लभेर्यथाकथंचिद्गत्यर्थतां संपाद्य प्रयोग उपपाद्यते तथापि प्राथमिककक्षायां समालंकारो न निवार्यते । इत्यनेन 'द्वितीयकक्षायां विषमालंकारोऽस्तु नाम' इत्यागूरितमसदेव । तादृशवैषम्यस्य निन्दारूपस्य व्याजस्तुतिविषयत्वेन तयापवादस्यैव न्याय्यत्वात् । न च वैपरीत्यम् । परिपूर्णचमत्कारभूमेाजस्तुतेस्त्वयाप्यनपह्नवात् ।
संयोगादिलक्षणस्यानुरूपता द्वेधा-स्तुतिपर्यवसायिनी, निन्दापर्यवसायिनी च । आद्या यथा
'अनाथः स्नेहार्द्रा विगलितगतिः पुण्यगतिदां
पतन्विश्वोद्धी गदविदलितः सिद्धभिषजम् । तृषार्तः पीयूषप्रकरनिधिमत्यन्तशिशुकः
सवित्री प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥' अनाथत्वादिविशिष्टस्य स्नेहार्द्रत्वादिविशिष्टेन संसर्गस्यानुरूपता भागीरथीस्तुतिपर्यवसायिनी । द्वितीया यथाउच्चाटनं मां लम्भयसे इति तु संयोगानुकूलव्यापारांनुकूलव्यापारार्थकवहसमानार्थकवात् । ण्यन्तलभेः 'अकथितं च' इति सूत्रेण बोध्यम् । संयोगानुकूलव्यापारो हि लमेरर्थः । गत्यादिनियमश्च पाचयत्योदनं देवदत्तेनेत्यादि व्यावृत्त्या चरितार्थः । अपवादस्यैव न्याय्यवादिति । अत्रेदं चिन्त्यम्-महतां सेवा विफला नेति स्तुतिः। ततो दूरनिरसनप्रापणरूपार्थान्तरपरिग्रहेण विषयावस्फूर्तिपूर्वकनिन्दायां पर्यवसानम् । परस्परविषयपरिहारेण द्वयोः सावकाशवात्संकर एवोचितश्चेति । गदेति । रोगसहित इत्यर्थः ॥ इति रसगङ्गाधरमर्मप्रकाशे समालंकारप्रकरणम् ॥