________________
હ
यथा वा
काव्यमाला
'मन्त्रार्पितहविर्दीप्तहुताशनतनूभुवः । शिखा स्पर्शेन पाञ्चाल्याः स्थाने दग्धः सुयोधनः ॥' पूर्वं कारणकार्यधर्मयोः श्लेषेणैक्यसंपादनम्, इह तु मरणदाहयोर भेदाध्यवसानरूपेणातिशयेनेति विशेषः । द्वितीयो भेदो यथा
'वडवानलकालकूटलक्ष्मीमकरव्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥' लक्ष्मीरप्यत्र मारकत्वेनैव कवेर्विवक्षिता ।
तृतीयो यथा
'नितरां धनमाप्तुमर्थिभिः क्षितिप त्वां समुपास्य यत्नतः । निधनं समलम्भि तावकी खल सेवा जनवाञ्छितप्रदा ॥' [अंत्र मरणबहुधनयोः श्लेषेणैक्ये बहुधनरूपेष्टात्मना वाञ्छितार्थाप्तिरूपसमालंकारचमत्कारः ।] अत्र व्याजस्तुतौ मुखे धनप्राप्तिरूपस्तुतिस्फूर्तिदशायां समालंकारस्तावदप्रत्यूह एव । मरणप्राप्तिप्रतीतिदशायां तु व्याजस्तुतेरेव पूर्णाङ्गतया तया विषमालंकारो बाध्यते ।
यत्तु कुवलयानन्दकृता
'उच्चैर्गजैरटनमर्थयमान एव
त्वामाश्रयन्निह चिरादुषितोऽस्मि राजन् । उच्चाटनं त्वमपि लम्भयसे तदेव
मामद्य नैव विफला महतां हि सेवा ॥'
इत्युदाहृत्य, ‘अत्र व्याजस्तुतौ यद्यपि स्तुत्या निन्दाभिव्यक्तिविवक्षायां विषमालंकारः, तथापि प्राथमिकस्तुतिरूपवाच्यकक्षायां समालंकारो
प्राग्वदाह – अथेति । स्थाने युक्तम् । मुखे प्रारम्भे । अत्रेति । यत इत्यादिः । यथाकथंचिद्गत्यर्थतामिति । ' नवेति विभाषा' इति सूत्रे हरति भारमित्यत्राप्राप्तौ 'हृक्रो-' इति 'विभाषा' इति भाष्योक्तेर्यथाकथंचिद्गत्यर्थानां तत्राप्रहाच्चिन्त्यमिदम् ।
१. 'अत्र मरण-' इत्याद्येकस्मिन्नेव पुस्तके समुपलभ्यते .