________________
४४२
काव्यमाला।
औपम्यांश इवोपमामूलेषु, सोऽलंकाराणां कतिपयानां निवर्तकः नतु खयं पृथगलंकारास्पदम् । अलंकाराणां भणितिविशेषमात्ररूपत्वात् । एवं च विमर्शिनीकारोक्तमपि पद्यमनयैव दिशा नीयते तदा न दोषः । यत्तु
"अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च या । अन्यत्कर्तुं प्रवृत्तस्य तद्विरुद्धकृतिस्तथा ॥ . अपारिजातां वसुधां चिकीर्षन्यां तथा कृथाः ।
गोत्रोद्धारप्रवृत्तोऽपि गोत्रोद्भेदं पुराकरोः ॥' अत्र श्रीकृष्णं प्रति शुक्रस्योपालम्भवाक्ये भुवि चिकीर्षिततया तत्र करणीयमपारिजातत्वं दिवि कृतमित्येकासंगतिः। पुरा गोत्राया उद्धारे प्रवृतेन वराहरूपिणा तद्विरुद्धं गोत्राणां दलनं खुरकुट्टनैः कृतमिति द्वितीया । यथा वा
'त्वत्खड्गखण्डितसपत्नविलासिनीनां
भूषा भवन्त्यभिनवा भुवनैकवीर । नेत्रेषु कंकणमथोरुषु पत्रवल्ली
चोलेन्द्रसिंह तिलकं करपल्लवेषु ॥' 'मोहं जगत्रयभुवामपनेतुमेत
दादाय रूपमखिलेश्वर देहभाजाम् । निःसीमकान्तिरसनीरधिनामुनैव _ मोहं प्रवर्धयसि मुग्धविलासिनीनाम् ॥' अत्राद्योदाहरणे कंकणादीनामन्यत्र करणीयत्वं प्रसिद्धमिति नोपन्यस्तम् । भवतिना भावनारूपान्यत्र कृतिराक्षिप्यते इति लक्षणानुगतिः" इति कुवलयानन्दकृतासंगतेरन्यद्भेदद्वयं लक्षयित्वोदाहृतम् , तन्न । तत्र तावत् 'अपारिजातां वसुधां चिकीर्षन्यां तथा कृथाः' इत्यत्र पारिजातराहित्यचिकीर्षया कारणभूतया सह पारिजातराहित्यस्य कार्यस्य विरुद्धवैयधिकरण्योपनिबन्धात् 'विरुद्धं भिन्नदेशत्वं कार्यहेत्वोरसंगतिः' इति प्राथमिकासंगतितो वैलक्षण्यानुपपत्तेः । आलम्बनाख्यविषयतासंबन्धेन चिकीर्षायाः सामानाधिकरण्येन कार्यमानं प्रति हेतुत्वस्य प्रसिद्धेः । न च पा