________________
रसगङ्गाधरः।
४४१
तच्च 'दृष्टिम॑गीदृशः' इत्यस्मन्निर्मितोदाहरणे व्यभिचारादसंगतम् । नहि 'मुच्यन्ते बन्धनात्केशाः' इत्यत्र केशबन्धनमुक्त्यंशेऽतिशयोक्तिरस्ति । किं तु श्लेषभित्तिकाभेदाध्यवसानमात्रम् । तस्माद्येन केनापि प्रकारेण कार्यांशेऽभेदाध्यवसानमावश्यकमिति तु संगतम् । यद्यपि 'दृष्टिर्मगीदृशः' इत्यादी कारणांशेऽपि श्लेषादिनाऽभेदाध्यवसायः संभवति, तथापि नासौ तदंशे नियतः।
'खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण । . ___ खिद्यन्ति हन्त परितस्तद्रूपविलोकिनस्तरुणाः ॥' इत्यादौ भारजनितखेदांशे तदभावात् । न च तत्रापि जलपूर्णघटादिभारजनितखेदेन सह नितम्बमारजनितखेदस्याभेदाध्यवसायोऽस्त्येवेति वाच्यम् । नितम्बमारजनितखेदस्य खखरूपेणापि खेदजनकत्वेन भारान्तरजनितखेदाध्यवसायानपेक्षणात् । 'सा बाला वयमप्रगल्भमनसः सा 'स्त्री वयं कातराः' इति प्राचीनानां पद्ये बालात्वस्त्रीत्वाद्यंशे तल्लेशस्याप्यसंभवाच । यत्तु 'विरोधालंकारे ोकस्मिन्नधिकरणे द्वयोः संबन्धाद्विरोधप्रतिभानम् , असंगतौ त्वधिकरणद्वय इति तस्मादस्य वैलक्षण्यम्' इति विमर्शिनीकार आह, तदसत् । इहापि तत्कार्यतावच्छेदकधर्मतत्तत्कारणवैयधिकरण्यरूपयोधर्मयोरेकस्मिन्कार्यरूपेऽधिकरणे संबन्धादेव विरोधप्रतिभानोत्पत्तेः । तस्माद्विरोधालंकारे ‘उत्पत्तिविमर्श विनैव विरोधप्रतिभानम् । इह तूत्पत्तिविमर्शपूर्विकैव विरोधप्रतिभोत्पत्तिः इति वैलक्षण्यमिति । वस्तुतस्तु-व्यधिकरणत्वेन प्रसिद्धयोः समानाधिकरणत्वेनोपनिबन्धने विरोधालंकारः । समानाधिकरणत्वेन प्रसिद्धयोर्द्वयोवैयधिकरण्येनोपनिबन्धनेऽसंगतिः । प्रागुक्तासंगतिलक्षणे हेतुकार्ययोरिति च समानाधिकरणमात्रोपलक्षणम् । तेन 'नेत्रं निरञ्जनं तस्याः . शून्यास्तु वयमद्भुतम्' इत्यत्र निरञ्जनत्वशून्यत्वयोरुत्पाद्योत्पादकभावलक्षणसंबन्धानन्तर्भावेण शुद्धसमानाधिकरणत्वेन प्रसिद्धयोरप्यसंगतिः संगच्छते । यथाश्रुते तु सा न स्यात् । इत्थं च स्फुट एव विरोधालंकारादसंगतेर्भेदः । यस्तु पुनर्विरोधालंकारादतिरिक्तः शुद्धविरोधांशो विरोधमूलेषु सर्वेष्वप्यलंकारेष्वनुस्यूतः, .