________________
काव्यमाला।
.. 'स्पृशति त्वयि यदि चापं खापं प्रापन्न केऽपि नरपालाः ।
शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं खपितु ॥ अत्र चापस्पर्शनयनशोणिनोर्हेत्वोः खापनाशरूपकार्यवैयधिकरण्येऽतिप्रसङ्गवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थयोरेव तयोः कार्यप्रयोजकतया विरोधानवकाशात् । ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम् । चापस्पर्शस्य तु लीलया कृतस्य खरूपतो हेतुत्वाभावात्तज्ज्ञानं खापनाशे हेतुत्वेनाभ्युपगन्तव्यम् । एवं च तस्य कथं वैयधिकरण्यमिति चेत्, न । प्रयोजकस्यापि हेतुपदेना ग्रहणाददोषः । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्मकरोषानुमितिलिङ्गत्वात् । उदाहरणम्
'अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति ।
प्रहरति हि कुसुमबाणोः जगतीतलवर्तिनो यूनः ॥' यथा वा
'दृष्टिर्मगीदृशोऽत्यन्तं श्रुत्यन्तपरिशीलिनी।
मुच्यन्ते बन्धनात्केशा विचित्रा वैधसी गतिः ॥' अत्राद्योदाहरणे शुद्धा, द्वितीये तु श्लेषोपबृंहितेति विशेषः । प्रहरतीत्यत्राभेदाध्यवसायलक्षणेनातिशयेनापराधनिमित्तकताडनरूपतयावस्थिते कामपीडने विषय्यंशमालम्ब्य तं प्रति समानाधिकरणतया प्रसिद्धस्य हेतोरपराधरूपस्य वैयधिकरण्यज्ञानात्पुरः स्फुरन्विरोधो विषयांशविमर्शोत्तरं तं प्रति कुसुमश्रीहरणाभिव्यक्तशोमाविशेषस्य भावनोपनीतस्य तद्भावनाया वा हेतुत्वस्य प्रतिसंघानान्निवर्तत इत्यभेदाध्यवसानमनुप्राणकम् । विरोधाभासश्चोत्कर्षकः । एवमन्यत्रापि बोध्यम् ।
अस्यां च विभावनायामिव कार्यांशेऽतिशयोक्त्यनुप्राणनमावश्यकम् । अन्यथा विरोधो दुष्परिहर एव स्यात् , इत्यलंकारसर्वखकारादीनां मतम् ।
प्राग्वदाह-अथेति । वैयधिकरण्यं भिन्नदेशवम् । प्रयोजकेति । यत इत्यादिः । भ्रमात्मकरोषानुमितीति । लीलया करणाद्भमात्मकत्वम् । श्लेषोपबृंहितेति।