________________
रसगङ्गाधरः।
४२३ ऽर्थः, तस्य च निषेधः तस्याप्यसत्यत्वम् , अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते । तेन नात्र निषेधविधिः । न वा विहितनिषेधः । अपि तु निषेधेनासत्येन विघेराक्षिप्यमाणत्वाद्योगार्थादाक्षेपः । स च प्रागुक्तदिशा चतुर्विधः । विधिना त्वसत्येन निषेधस्याक्षेपे अपरोऽयमाक्षेपः । अत्रापि अनिष्टोऽर्थः, तस्य विधिः, तस्याप्याभासत्वम् , अर्थगतविशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते ।" इत्याहुः । एतेषां मते चेत्थमुदाहरणं निर्माणीयम्'न वयं कवयस्तव स्तवं नृप कुर्वीमहि यन्मृषाक्षरम् ।
रणसीनि तवावलोकने तरुणार्को दिनकौशिकायते ॥' - 'मां पाहीति विधिविधेयविषयो वाच्यः खतन्त्रे कथं
नोपेक्ष्यो भवतास्मि दीन इति गीः श्लाघ्या न संख्यावताम् । एवं दोषविचारणाकुलतया देव त्वयि प्रोन्मुखे
वक्तव्यप्रतिभादरिद्रमतयः किंचिन्नहि ब्रूमहे ।। 'रे खल तव खलु चरितं विदुषामने विविच्य वक्ष्यामि ।
अलमथवा पापात्मन्कृतया कथयापि ते हतया ॥' 'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
तस्याः किं वा पृच्छसि निर्दय तिष्ठत्वसौ हता वार्ता ।' तत्राद्यपद्ये कवेरुक्तौ कवित्वनिषेधो बाधितो मिथ्यावादित्वनिषेधा. त्मना । पर्यवस्यन्नुत्तरार्धगतस्यार्थस्य सत्यत्वरूपं विशेष व्यनक्ति । एवं द्वितीयपद्ये रक्षणदानयोः कथमस्येष्टत्वान्निषेधो बाधितस्तयोर्विवक्षितत्वे पर्यवस्यन्नवश्यानुष्ठेयताम् । तृतीये खलसंबन्धिवृत्तान्तकथनत्वेन सामान्यरूपेण प्रकृतपैशुन्यादिवृत्तान्तकथनस्य वक्ष्यमाणस्य निषेधः कथ्यमानस्तस्य चिन्तितदुःखप्रदताम् । चतुर्थे कंचन तत्संबन्धिन्या वार्ताया अंशं श्वासतानवादिकं कथयित्वा क्रियमाणो निषेधो वक्ष्यमाणमरणवार्ताविषयः संस्तस्या मुखादनिःसरणीयताम् । एषु निषेधस्याप्रतिष्ठानान्न विहितनिषेधः, नापि निषेधविधिः।