________________
१२४
काव्यमाला।
'तपोनिधे कौशिक रामचन्द्रं निनीषसे चेन्नय किं विकल्पैः ।
निरन्तरालोकनपुण्यधन्या भवन्तु वन्या अपि जीवभाजः ॥' ___ अत्र पुत्रस्नेहाकुलस्य दशरथस्य वाक्ये नयेति विधिर्बाधितो मा नयेति निषेधे पर्यवसितोऽन्यथा तु मम प्राणवियोगो भविष्यतीत्यर्थ व्यनक्तीति विध्याभासरूपोऽयमाक्षेपः । एवमुदाहरणेषु स्थितेषु प्राचीनमतानुसारीण्याक्षेपोदाहरणान्येतेषां मतेऽनुदाहरणान्येव । इत्थं च प्राथमिकमतसिद्ध आक्षेपः प्रतीपप्रभेदः । द्वितीयमतसिद्धस्तु विहितनिषेध एव न पुनराक्षेपः । तत्र निषेधस्यानाभासरूपत्वात् । इति तदाशयः । इतरे तु
"निषेधमात्रमाक्षेपः ।'
चमत्कारित्वं चालंकारसामान्यलक्षणप्राप्तमेव । तच्च व्यङ्ग्याथै सति संभवतीति सव्यङ्गयो निषेधः सर्वोऽप्याक्षेपालंकारः । एवं चोपमेयकृतोपमानकैमर्थक्यपक्षान्तरालम्बनकृतप्राचीनपक्षकैमर्थक्यविशेषप्रतिपादनप्रयोजकोक्तवक्ष्यमाणकथनकैमर्थक्यानामनुपदोक्तनिषेधविध्याभासयोश्च संग्रहः" इत्यप्याहुः। अथाक्षेपध्वनिस्तन्मतानुसारेणोदाहियते
'त्वामवश्यं सिसृक्षन्यः सृजति स्म कलाधरम् ।
किं वाच्यं तस्य वैदुष्यं पुराणस्य महामुनेः ॥ अत्र येषामुपमानकैमर्थ्यमाक्षेपस्तेषां त्वयि सति किं कलाधरेणेत्यंशमादाय, येषां च निषेधमात्रमाक्षेपस्तेषां वृद्धस्य ब्रह्मणो वैदुष्यं नास्तीत्यंशमादाय च ध्वनिः । ननु किं वाच्यं तस्य वैदुष्यमिति वैदुष्योक्तेः सबाधाया झटिति वैदुष्याभावे पर्यवसानादुपमानकैमर्थ्यस्यापि झगित्येव प्रतीतेर्वांच्यकल्पत्वात्कथं नाम ध्वनित्वं स्यादिति । नैष दोषः । ब्रह्मणो हि त्वां सिसृक्षतः करणपाटवसंपत्त्यर्थमादौ पाण्डुलेखवदिन्दं निर्मितवतः किं वैदुष्यं वाच्यमिति वैदुष्योक्तेर्निर्बाधत्वादादौ सत्यां विश्रान्तौ पश्चादवश्यं पुराणस्येत्येतदर्थपर्यालोचनेन वैदुष्याभावचन्द्रकैमर्थ्ययोः पर्यवसानमिति न ध्वनित्वस्खलनम् । येषां त्वाभासरूप एव निषेध आक्षेपस्तेषां न प्रागुक्त आक्षेपध्वनिरपि त्वयम् ।