________________
४२२
अन्ये तु
काव्यमाला ।
"निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषयः स आक्षेप द्विधा मतः ॥'
विशेषं व्यङ्गथरूपमर्थ विशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदृशः कथनादिप्रत्याख्यानरूपः । स वक्ष्यमाणविषय उक्तविषयश्वेति द्विविधः" इत्याहुः । तेषां मते इत्थमुदाहार्यम् -
'रीतिं गिराममृतवृष्टिकिरां त्वदीयां तां चाकृतिं कृतिवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृर्ति करुणारसार्द्रा ज्ञातुं न कस्यचिदुदेति मनः प्रसारः ॥' अत्र करिष्यमाणस्य मनः प्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतां बोधयितुम् ।
'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः ।
तस्याः सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥
अलंकार सर्वखकारादयस्तु —
“प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठितत्वादाभासमात्ररूपः कस्यचिदर्थविशेषस्य विधानं व्यनक्ति स एकः । यश्चाप्राकरणिकस्य विधिस्तादृश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविधोऽप्ययमाक्षेपः ।"
तत्र निषेधाभासरूप आक्षेपस्तावद्विविधः – उक्त विषयो वक्ष्यमाणविषयश्चेति । उक्तविषयोऽपि द्विविधः –— कचिद्वस्तुमात्रनिषेधात्कचिद्वस्तुकथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एवं सामान्यधर्मावच्छिन्नप्रतियोगिताकः शब्दात्समर्प्यमाणोऽपि विशेषरूपेष्टनिषेधात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाधत्ते । सोऽपि द्विविधः1 सामान्याश्रययत्किंचिद्विशेषनिरूपणानिरूपणाभ्याम् । तत्र निरूपितेषु यत्किंचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टविषय एव संपद्यते । अनिरूपितेषु तु सुतराम् । चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टोकेचिदाहुः । सोऽपि द्विविध इति । वक्ष्यमाणविषयोऽपीत्यर्थः । व्यनक्तीत्यस्याग्रे
1