________________
४१६
काव्यमाला ।
इत्यत्र विप्रत्ययेन तद्भेदावगमाद्रूपकासंभवेन पर्यायोक्तं भवितुमर्हति । गम्यं चान्तर्व्याप्तचरणकत्वमन्तर्व्याप्ताङ्गकत्वं च ।
तदेवं संक्षेपतस्त्रिविधः । वाग्भङ्गीनां तु पर्यालोचने एकस्मिन्नेव विषयेऽनन्तप्रकारः संपद्यते, किमुत विषयभेदे । यथा - ' इह भवद्भिरागन्तव्यम्' इति विषये 'अयं देशोऽलंकर्तव्यः' इति, 'पवित्रीकर्तव्यः' इति, 'सफलजन्मा कर्तव्यः' इति, 'प्रकाशनीयः' इति, 'देशस्यास्य भाग्यान्युज्जीवनीयानि' इति, 'तमांसि तिरस्करणीयानि' इति, 'अस्मन्नयनयोः संतापोहरणीयः' इति, 'मनोरथः पूरणीयः' इत्यादिः । कार्यादीनां त्वारोपेण निष्पत्तिरन्वेष्टव्या ।
एवं च पर्यायोक्तस्य कार्यरूपाप्रस्तुतप्रशंसायां विषयापहारमाशङ्कय कार्यकारणयोरपि प्रस्तुतत्वे पर्यायोक्तम्, कार्यस्याप्रस्तुतत्वे कारणस्य च प्रस्तुतत्वे कार्यरूपाप्रस्तुतप्रशंसेति विषयविवेकः सर्वखकृता कृतः । तत्र न्यूनविषयया कार्यरूपाप्रस्तुतप्रशंसया बहुविषयस्यास्य विषयापहारो न सङ्गच्छत एव । परं त्वनेन तस्या विषयापहारमाशङ्क्य विषयविभागः कर्तुमुचितः ।
इति रसागङ्गाधरे पर्यायोक्तप्रकरणम् ।
अथ व्याजस्तुति:
आमुखप्रतीताभ्यां निन्दास्तुतिभ्यां स्तुतिनिन्दयोः क्रमेण पर्यवसानं व्याजस्तुतिः ॥
तृतीयातत्पुरुषकर्मधारयाभ्यां योगार्थद्वयेन द्वयोरपि शब्दार्थत्वम् । आमुखेत्यादिविशेषणेन तयोः पर्यवसानाभावं वदन्बाधितत्वमभिप्रैति । अत एव नास्या ध्वनित्वम् । ध्वनौ हि निर्बाधेन वाच्येनागूरणमहिम्नार्था-न्तरमवगम्यते । न चैवं प्रकृते ।
- इति कुवलयानन्दे ध्वनितं तट्टीकायां स्पष्टं तत एव बोध्यमिति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशे पर्यायोक्तप्रकरणम् ॥
आमुखेति । शब्दतो वृत्त्या प्रथमप्रतीताभ्यामित्यर्थः । तदाह - आमुखेत्यादीति । अस्या व्याजस्तुतेः । न च नहि । राजेति । सूर्यवंशेत्यादिः । तथाभूतबो