________________
रसगङ्गाधरः ।
२७
कत्वम् । तेन रसाखादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ता भेदबुद्ध्या प्रतिबध्यते' इत्याहुः । परे तु 'व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना खात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमद भेदबोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः । खानादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशाहादापतिः । एवमपि खस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् । मैवम् । नायं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आखादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः' इत्यपि वदन्ति । एतैश्च खात्मनि दुष्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिंवैशिष्ट्यावगाही, खात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुष्यन्ततादात्म्यावगाही, खात्मत्वविशिष्टे दुष्यन्तत्वशकुन्तलाविषयकरत्योर्वैशिष्ट्यावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्युपेयः । तत्र 'रतेर्विशेषणीभूतायाः शब्दादप्रतीतत्वाद्व्यञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम् । मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते ' इत्येके । मतेऽस्मिन्साक्षात्कारो दुष्यन्तोऽयं शकुन्तलादिविषयकरतिमानित्यादिः प्राग्वद्धशे लौकिक आरोप्यांशे त्वलौकिकः । ' दुष्यन्तादिगतो रत्यादिर्नटे पक्षे दुष्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनुमीयमानो रसः' इत्यपरे ।
रति - शकुन्तलादाविति । प्रागुक्तदोषमुद्धरति – स्वानादिस्त्विति । नन्वेवं बोधस्यैव सत्त्वेन कथमाखादे रसविषयकत्वव्यवहारोऽत आह- आस्वादेति । एतैश्च ‘परेतु' इति वादिभिश्च । अभ्युपेय इति । विनिगमनाविरहादिति भावः । रस इति । रत्यादिरूपो रस इत्यन्वयः । दुष्यन्ताद्यनुकर्तरीति । श्रव्यकाव्ये तु काव्यपाठक इति बोध्यम् । मतेऽस्मिन्निति । अस्मिन्मते इत्यादिः साक्षात्कारस्तत्र लौकिकोऽन्यत्रालौकिक इत्यन्वयः । मतान्तरमाह - दुष्यन्तादीति । कतिपये केचन । त्रिषु विभा