________________
२८
काव्यमाला।
'विभावादयस्त्रयः समुदिता रसाः' इति कतिपये । त्रिषु य एव चमत्कारी स एव रसोऽन्यथा तु त्रयोऽपि न' इति बहवः । 'भाव्यमानो विभाव एव रसः' इत्यन्ये । 'अनुभावस्तथा' इतीतरे । 'व्यभिचायें तथा तथा परिणमति' इति केचित् । तत्र ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रं तत्तन्मतपरतया व्याख्यायते-'विभावानुभावव्यभिचारिभिः संयोगायञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाय्यात्मनः स्थाय्युपहितचिदानन्दात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्' इत्याये । 'विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारेण भावनाद्रसस्य स्थाय्युपहितसत्त्वोद्रेकप्रकाशितखात्मानन्दरूपस्य निष्पत्तिभॊगाख्येन साक्षात्कारेण विषयीकृतिः' इति द्वितीये । विभावानुभावव्यभिचारिणां संयोगाद्भावनाविशेषरूपादोषाद्रसस्यानिर्वचनीयदुष्यन्तरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः' इति तृतीये । 'विभावादीनां संयोगाज्ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः' इति चतुर्थे । 'विभावादीनां संबन्धाद्रसस्य रत्यादेर्निष्पत्तिरारोपः' इति पञ्चमे । 'विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेर्निष्पत्तिरनुमितिनटादौ पक्ष इति शेषः' इति षष्ठे । 'विभावादीनां त्रयाणां संयोगात्समुदायाद्रसनिष्पत्ती रसपदव्यवहारः' इति सप्तमे । 'विभावादिषु सम्यग्योगाचमत्कारात्' इत्यष्टमे । तदेवं पर्यवसितस्त्रिषु मतेषु सूत्रविरोधः । विभावानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकता
वादिषु । तथा भाव्यमानोऽनुभावस्तथा रस इतीतरे इत्यर्थः । तथा भाव्यमानो व्यभिचारिभाव एव तथा रसरूपतया परिणमतीत्यर्थः । उक्तार्थानां समूलखमाह-तत्रेति । उक्तपक्षसिद्ध्यर्थमित्यर्थः । संयोगादित्यस्य व्याख्या व्यञ्जनादिति । विनिगमनाविरहादाह-स्थाय्युपेति । निष्पत्तिरित्यस्य व्याख्या खरूपेणेत्यादि । आद्येऽभिनवगुप्तमते । संयोगादित्यस्य विच्छिद्यार्थमाह-सम्यगिति । द्वितीये भट्टनायकमते । तृतीये नव्यमते । चतुर्थे परे वितिमते । पञ्चमे इत्येके इतिमते । अनुमितिरित्यन्तोऽर्थः । अग्रे शेषपूरणम् । षष्ठे इत्यपरे इतिमते । सप्तमे इति कतिपये इतिमते । अष्टमे इति बहव इतिमते । उपसंहरति-तदेवमिति । त्रिषु मतेषु भाव्यमान इत्यादिध्वग्रिमेषु । ननु तत्रैव त्रयाणां किमित्युपादानं येन मतत्रये सूत्रविरोधोऽत आह-विभावेति । निर्धारणषष्ठीयम् । रसान्तरेति । तदुक्तम्-'व्याघ्रादयो विभावा भयानकस्येव