________________
२६
काव्यमाला।
दयाह्लादहेतुत्वम् । प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात् । न च सत्यस्य शोकादेवुःखजनकत्वं क्लृप्तं न कल्पितस्येति नायकानामेव दुःखम् , न सहृदयस्येति वाच्यम् । रज्जुसर्पादेर्भयकम्पाद्यनुत्पादकतापत्तेः । सहृदये रतेरपि कल्पितत्वेन सुखजनकतानुपपत्तेश्चेति चेत् । सत्यम् । शृङ्गारप्रधानकाव्येभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाह्लाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाहादप्रयोजकत्वमिव दुःखप्रतिबन्धकत्वमपि कल्पनीयम् । अथ यद्याह्लाद इव दुःखमपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम् । खखकारणवशाचोभयमपि भविष्यति । अथ तत्र कवीनां कर्तुम् , सहृदयानां च श्रोतुम् , कथं प्रवृत्तिः अनिष्टसाधनत्वेन निवृत्तेरुचितत्वात् । इति चेत् । इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाच्चन्दनद्रवलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाहादवादिनां तु प्रवृत्तिरप्रत्यूहैव । अश्रुपातादयोऽपि तत्तदानन्दानुभवस्खाभाव्यात् । न तु दुःखात् । अत एव भगवद्भक्तानां भगवद्वर्णनाकर्णनादश्रुपातादय उपपद्यन्ते । न हि तत्र जात्वपि दुःखानुभवोऽस्ति । न च करुणारसादौ खात्मनि शोकादिमद्दशरथादितादात्म्यारोपे यद्याह्लादस्तदा खप्नादौ संनिपातादौ वा खात्मनि तदारोपेऽपि स स्यात् , अनुभविकं च तत्र केवलं दुःखमितीहापि तदेव युक्तमिति वाच्यम् । अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्या अरमणीया अपि शोकादयः पदार्था आह्लादमलौकिकं जनयन्ति । विलक्षणो हि कमनीयः काव्यव्यापारज आखादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च वजन्यभावनाजन्यरत्यादिविषय
नेनेत्यर्थः । तस्य रत्यादेः । रजुसदेरिति । तद्रूपसर्पादेरित्यर्थः । केवलेति । दुःखामिश्रेत्यर्थः । दुःखप्रतिबन्धेति । सुरतकालिकदन्ताद्याघातस्येवेत्यर्थः । प्रमाणेत्यस्य सहृदयेत्यादि । तत्र करुणप्रधानकाव्ये । द्वितीयमतेनेदमुक्तं नाद्यमतेनेत्याह-केवलेति । न चाद्यमतेऽश्रुपातादयो न स्युः, तेषां दुःखकार्यबादत आह-अश्रुपातादयोऽपीति । नेदं क्वचिदृष्टमत आह-अत एवेति । जालपीषदपि । तदारोपेऽपि शोकादिमद्दशरथादितादात्म्यारोपेऽपि । स आह्लादः । तत्र खप्नादौ । इहापि करुणरसादावपि । तदेव दुःखमेव । यत्प्रयोज्याः काव्यव्यापारप्रयोज्याः । प्राचीनोक्तदोषमुद्ध