________________
रसगङ्गाधरः।
२५ भोगो विषयसंवलनाद्ब्रह्माखादसविधवर्तीत्युच्यते । एवं च त्रयोंऽशाः काव्यस्य । “अभिधा भावना चैव तद्भोगीकृतिरेव च" इत्याहुः । मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरखीकार एव विशेषः । भोगस्तु व्यक्तिः । भोगकृत्त्वं तु व्यञ्जनादविशिष्टम् । अन्या तु सैव सरणिः । नव्यास्तु 'काव्ये नाट्ये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतोल्लासितस्य भावनाविशेषरूपस्य दोषस्य महिम्ना कल्पितदुष्यन्तत्वावच्छादिते खात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलादिविषयकरत्यादिरेव रसः । अयं च कार्यो दोषविशेषस्य । नाश्यश्च तन्नाशस्य । खोत्तरभाविना लोकोत्तराह्लादेन भेदाग्रहात्सुखपदव्यपदेश्यो भवति । खपूर्वोपस्थितेन रत्यादिना तदनहात्तद्रतित्वेनैकत्वाध्यवसानाद्वा व्यङ्गयो वर्णनीयश्चोच्यते । अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव । अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यतावच्छेदकत्वम् । एतेन दुष्यन्तादिनिष्ठस्य रत्यादेरनाखाद्यत्वान्न रसत्वम् । खनिष्ठस्य तु तस्य शकुन्तलादिभिरतत्संबन्धिभिः कथमभिव्यक्तिः । खस्मिन्दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहतेत्यादिकमपास्तम् । यदपि विभावादीनां साधारण्यं प्राचीनरुक्तं तदपि काव्येन शकुन्तलादिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलादिषु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोषविशेषे तेनैव खात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा । नन्वेवमपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेषजनकता, करुणरसादिषु तु स्थायिनः शोकादेर्दुःखजनकतया प्रसिद्धस्य कथमिव सह
शिष्ट इत्यर्थः । भोगश्च सत्त्वगुणोद्रेकात्प्रकाशते य आनन्दस्तत्वरूपानन्यालम्बना या संवित्तत्स्वरूपो लौकिकसुखानुभवविलक्षणः । सत्त्वरजस्तमसां गुणानामुद्रेकेण क्रमात्सुखदुःखमोहाः प्रकाश्यन्ते । सविधेति । न तु स एवेति भावः । अंशा व्यापाराः । सैवेति । प्रागुक्त एव मार्ग इत्यर्थः । तन्नाशेति । दोषविशेषनाशेत्यर्थः । स्वपूर्वोपेति । दुष्यन्तादौ गृहीतशकुन्तलारत्यादिनेत्यर्थः । तदग्रहादिति । मेदाग्रहादित्यर्थः । नन्वेवमपि कथं तद्धर्मलाभोऽत आह-तगतीति । एतेनेति । उक्तरीत्या सर्वोपपाद
३ रस०