________________
४०२
काव्यमाला ।
त्वावगमो घटं प्रति दण्डादेरिवास्तु । न त्वाश्रयत्वावगमः । स तु पुनस्तद्वृत्तित्वाज्ञानाधीनः । इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन, अभङ्गस्य चार्थद्वयवृत्तित्वमेकवृन्तगतफलद्वयवच्च स्फुटमेवेत्येकस्य शब्दालंकारत्वमपरस्यार्थालंकारत्वम् । यद्यपि द्वितीयस्यापि 'प्रतिप्रवृत्तिनिमित्तं शब्दभेद:' इति नये शब्दद्वयवृत्तित्वाच्छब्दालंकारत्वमुचितम्, तथापि शक्ततावच्छेदकानुपूर्व्य भेदाद भेदाध्यवसानाच्छब्दद्वयवृचित्वाज्ञानं दुःशकम् । अन्यथा 'प्रत्यर्थं शब्दनिवेश:' इति नये पराभिमतोऽर्थ श्लेषोऽपि शब्दालंकार एव स्यात् । इत्यलंकार सर्वस्वकारादयः ।
अयं चोपमेव खतन्त्रोऽपि तत्र तत्र सकलालंकारानुग्राहकतया स्थितः सरखत्या नवं नवं सौभाग्यमावहन्नानाविधेषु लक्ष्येषु सहृदयैर्विभावय इति ।
इति रसगङ्गाधरे श्लेषप्रकरणम् ।
अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपकरणे समासोक्तिरुक्ता । इदानीं तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते
अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ॥
प्रशंसनं च वर्णनमात्रम्, न तु स्तुतिः । ' धिक्तालस्योन्नततां यस्य ' च्छायापि नोपकाराय ।' इत्यादावव्याघ्यापत्तेः ।
इयं च पञ्चधा – अप्रस्तुतेन खसदृशं प्रस्तुतं गम्यते यस्यामित्येका । कार्येण कारणमित्यपरा । कारणेन कार्यमिति तृतीया । सामान्येन विशेष इति चतुर्थी । विशेषेण सामान्यमिति पञ्चमी ।
आद्या यथा
'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः ।
येति । एकस्य आद्यस्य । अपरस्य द्वितीयस्य । अयं च श्लेषश्च । इतिः समाप्तौ ॥ इति रसगङ्गाधरमर्मप्रकाशे श्लेषप्रकरणम् ॥
अथ वक्तव्याप्रस्तुतप्रशंसायाः संगतिमाह - अप्रस्तुतेनेति । हरिदिति इन्द्रादय