________________
रसगङ्गाधरः ।।
४०१ भूतभव्यस्य स एवाद्य स उ श्वः' इति वेदान्तवाक्ये किमैश्वर्यविशिष्टः कश्चिज्जीवः प्रतिपाद्य ईश्वरो वेति संशये प्राप्ते 'शब्दादेव प्रमितः' इति सूत्रितमुत्तरमीमांसाकारैर्व्यासचरणैः । तस्मात्प्रागुक्तपद्येऽप्र. कृतचोरव्यवहारो न शक्तिवेद्यः, अपि तु व्यक्तिवेद्य एव । मुख्यार्थबाधाद्यभावाल्लक्ष्योऽपि न शक्यो वक्तुम् । तात्पर्यार्थबाधस्तु तात्पर्यार्थबोधोतरबोध्यः, स एव तु कथं स्यादिति व्यञ्जनैव शरणीकरणीया । नहि चोरव्यवहारोऽत्र वक्तुर्विवक्षित इति ज्ञाने श्रोतुः कश्चिदुपायोऽस्ति ऋते सहृदयतोन्मिषितादस्माद्व्यापारात् । इदं पुनरिहावधेयम्-'रागावृतो वल्गुकराभिमृष्टं श्यामामुखं चुम्बति चारु चन्द्रः' इत्यादौ तावत्समासोक्तिरिति निर्विवादम् । चन्द्रपदस्थाने राजेति कृते तु शब्दशक्तिमूलो ध्वनिरिति च । तदत्रोभयत्रापि श्लिष्टविशेषणमाहात्म्यादप्रकृतव्यवहारस्य प्रतीयमानस्य तुल्यत्वात्कथमेकत्र गुणीभावोऽन्यत्र प्राधान्यं च स्यात् । प्रकृतस्य प्राधान्यादप्रकृतस्य तु तदुपस्कारकत्वेनोभयत्रापि गुणभावौचित्यात् । नहि विशेष्यस्य श्लिष्टतामात्रेण व्यङ्गयस्य प्राधान्यम् , अश्लि. ष्टत्वे चाप्राधान्यं शक्यं संपादयितुम् । नायकत्वप्रतीतिरपि कचिदर्थशक्तिमूलेन व्यञ्जनेन, कचिच्छब्दशक्तिमूलेन तुल्यैव । यैरपि समासोक्तौ प्रकृतधर्मिणि नायकत्वादेः प्रत्ययो नाभ्युपेयते, अपि तु नायकादिव्यवहारस्यैव ध्वनौ चाभ्युपेयते, तेषामपि व्यङ्ग्यस्यैकत्र गुणत्वमन्यत्र प्राधान्यं च कस्य हेतोः स्यात् । प्रकृताप्रकृतयोरौपम्यं गम्यमुच्यतामभेदो वा सर्वथैव तस्य प्रकृतोपस्कारकत्वाद्गुणीभाव एवोचितो न प्राधान्यम् । अन्यथा समासोक्तावपि व्यङ्ग्यस्य प्राधान्यापत्तेः । तस्माच्छिष्टाश्लिष्टाविशेष्या समासोक्तिरेवेयम् । पराङ्गरूपगुणीभूतव्यङ्ग्यभेद इत्यपि शक्यते वक्तुं यदि प्राञ्चो न कुप्यन्ति । सोऽयं श्लेषः सभङ्गोऽभङ्गश्चार्थालंकार एवेत्यौद्भटाः । उभावप्येतौ शब्दालंकारौ । शब्दस्य परिवृत्त्यसहत्वादन्वयव्यतिरेकाभ्यां तदाश्रितत्वावधारणात् । तृतीयस्त्वर्थालंकारः । अर्थमात्राश्रितत्वात् । इति मम्मटभट्टाः । अन्वयव्यतिरेकाभ्यां हि हेतु
व्यक्तिर्व्यञ्जना । अस्मात् व्यञ्जनाख्यात् । वल्गु सुन्दरम् । इति च निर्विवादम् । एकत्र आये । अन्यत्र अन्ये । एवमग्रेऽपि । कस्य कस्मात् । सर्वखकारमतमाह-अन्व