________________
३९८
काव्यमाला।
'अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः। . सततमसुमतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥' अत्र हि समासोक्त्युदाहरणे वृद्धवेश्यावृत्तान्तः प्रतीयते । तत्राभङ्गश्लेष इति सर्वेषामभिमतम् । एवं चाप्रकृतार्थो न व्यङ्ग्यः ।" इत्याह । तत्र विचारयामः—यत्तावदुच्यते उपमादेरलंकारस्यैव व्यङ्ग्यत्वं प्राचीनानामभिप्रेतं न त्वप्रकृतार्थस्येति । एवं सति । ___'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृव्यापतिरञ्जनम् ॥' इत्यादिस्तेषां ग्रन्थः कथमायुष्मता समर्थितः । उपमादेर्व्यङ्गयत्वस्य वाचकसानियन्त्रणानपेक्षत्वात् । नबनेकार्थस्यापि शब्दस्योपमादिवाचकत्वं प्रसक्तं येन तन्नियन्त्रणाय संयोगाद्यनुसरणमर्थवत्स्यात् । द्वितीयार्थवाचकतायामनियन्त्रितायामप्युपमादेर्व्यङ्गयत्वस्य निष्प्रत्यूहत्वात् । तस्मात्तद्वन्थानाकलननिवन्धनं तदभिप्रायवर्णनमिति स्फुटमेव । यदप्युच्यते अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्येत्यादि तत्र कथमप्रकृतार्थस्य शक्त्या प्रतिपादनम् । तद्विषये शक्तेनियन्त्रणस्य तैरेवोक्तत्वात् । अथ नियन्त्रणं नाम प्रथमं बोधजननमात्रं न तु चरममपि । एवं च प्रकृतशक्त्या प्रकृतार्थबोधे जाते सत्यकृतार्थया द्वितीयशक्त्या प्रकृतेतरार्थबोधे न किंचिद्बाधकमिति चेत् । न । प्रथमं ह्यप्रकृतार्थबोधस्याजननमेव कस्य हेतोः । प्रकरणादि
अन्यत्रापि उदाहरणान्तरेऽपि । अयमतीति । माघे रैवतकवर्णनम् । अयं रैवतकगिरिः कठिनाः अत्यन्तमहतीः महाविलम्बमानमेघव्याप्ताः निरन्तरं प्राणिनामगम्यखरूपाः परिणतास्तिर्यग्दन्तप्रहारिणो दिक्करिणो दिग्गजा यासु तास्तटीबिभर्तीत्यर्थः । 'तिर्यग्दन्तप्रहारी यो गजः परिणतस्तु सः' इति हलायुधः । वृद्धवेश्यापक्षे तु अयं राजा अतिप्रवयसो जीर्णा महाविलम्बमानस्तनसंबद्धाः सततं कदापि प्राणिनां संगमायोग्यखरूपाः । गमने प्राणिनां मरणमेवेति भावः । परिणते दिग्वर्तुलाकारं दशनक्षतं करिका नखक्षतं च यासां तास्वटीस्तत्त्वेनाध्यवसिता वृद्धवेश्या बिभर्तीत्यर्थः । 'दिग्दष्टं वर्तुलाकारं करिका नखरेखिका' इति यादवः । ननु तत्र श्लेष एव नात आह-तत्रेति । अयमतीत्यत्रेत्यर्थः । उपसंहरति-एवं चेति । तेषां प्राचीनानाम् । दोषान्तरमाह-द्विती. यार्थेति । तैरेव प्राचीनैरेव । अकृतार्थया अचरितार्थया । सा पूर्व विद्यमाना ।