________________
रसगङ्गाधरः ।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥'
३९७
कुवलयानन्दकारस्तु—‘यदत्र प्रकृताप्रकृत श्लेषोदाहरणे शब्दशक्तिमूलध्वनिमिच्छन्ति प्राञ्चस्तत्तु प्रकृताप्रकृताभिधानमूलस्योपमादेरलंकारस्य व्यङ्ग्यत्वाभिप्रायं न त्वप्रकृतार्थस्यैव व्यङ्ग्यत्वाभिप्रायम् । अप्रकृतार्थस्यापि शक्त्या प्रतिपाद्यस्याभिधेयत्वेन व्यक्त्यनपेक्षत्वात् । यद्यपि प्रकृतार्थे प्रकरणवशाज्झटिति बुद्धिस्थिते सत्येव पश्चान्नृपतितद्भाह्यधनादिवाचिनां राजकरादिपदानामन्योन्यसंनिधानबलात्तद्विषयशक्त्यन्तरोन्मेषपूर्वकमप्रकृतार्थः स्फुरेत् । नैतावता तस्य व्यङ्ग्यत्वम् । शक्त्या प्रतिपाद्यमाने सर्वथैव व्यक्त्यनपेक्षणात् । पर्यवसिते प्रकृतार्थाभिघाने स्फुरति चेत्कामं गूढश्लेषोऽस्तु । अस्ति चान्यत्रापि गूढः श्लेषः । यथा
धितज्ञानस्य अवारितगतेर्वा अदुष्टहितकर्तुर्वा । परेति । शत्रुनिवारकस्य । गजपक्षे भद्रजातीयस्य । अत्युच्चत्वाद्दुःखाधिरोह्यशरीरस्य । विशाला वंशस्य पृष्ठदण्डस्योन्नतिर्यस्य । कृतभ्रमरसंग्रहस्य अनुद्धतवीरगमनस्य । परस्योत्कृष्टस्य वारणस्य गजस्य । करः शुण्डादण्डः । मदजलसेकसुभगोऽभूदित्यर्थः । अत्र राजा वाच्यो हस्ती प्रतीयमानः । ननु प्रकरणेनाभिधाया नियमनादप्रकृतार्थस्य व्यङ्ग्यत्वमेवेति कथं श्लेषोत आह— यदत्रेति । मूलस्य मूलकस्य । अलंकारस्येति । इदमुपलक्षणं वस्तुध्वनेरपि । शनिरशनिरित्यादौ शनिविरुद्धरूपेऽप्रस्तुतेऽशनिशब्देनाभिधया प्रतीयमानेऽपि तन्मूलकस्य निरुद्धावपि त्वदनुवर्तनमेकं कार्यं कुरुत इति वस्तुध्वनेरशनिशब्दशक्तिमूलस्य संभवात् । एतेन शब्दशक्तिमूलवस्तुध्वनेरुच्छेद इत्यपास्तम् । अत एव विवक्षितार्थमाह-न त्विति । अभिधेयत्वेति । वाच्यत्वावश्यकत्वेनेत्यर्थः । 'अभिधाया अवश्यंभावेन' इति क्वचित्पाठः । झटितीति । एवं च प्रकरणादीनां प्राथमिकबोधत्वमेव प्रतिबध्यतावच्छेदकमिति भावः । नृपतितद्भाह्येति । नृपतिनृपतिग्राह्येत्यर्थः । यथासंख्येनास्य राजकरयोरन्वयः । ' असावुदयमारूढः कान्तिमान्रक्तमण्डलः । राजा हरति सर्वस्वं मृदुभिर्नूतनैः करैः ॥ इत्यादाविति भावः । अन्योन्यसंनिधाने ति परस्परार्थसंबन्ध्यर्थवाचकशब्दसमभिव्याहाररूप शब्दान्तरसंनिधीत्यर्थः । तद्विषयेति । प्रकृतार्थविषयेत्यर्थः । नैतावतेत्यस्य तथापीत्यादिः । एतावता पूर्वापरभावमात्रेण तस्य अप्रकृतार्थस्य पश्चादिति । अप्रकृतार्थं इत्यनुषज्यते । काममिति । अप्रकृतस्य द्वितीयस्य शीघ्रप्रत्ययाद्भूढत्वम् । तदसंभवशङ्कां निरस्यति - अस्ति चेति । चो ह्यर्थे ।
३४ रस०