________________
रसगङ्गाधरः।
३८७ खाश्रयरेणुद्वारा संक्रान्तेति गम्यते । न च शक्तेः पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वाच्यम् । क्षालितावशिष्टा लेशरूपा शक्तिश्चरणे काचित्स्थितासीत् यया संप्रति कालियस्य विषमहारीत्यप्याकूतान्तर्गतमेवेति नानुपपत्तिः । एवं हि वाच्योपस्कारकतयात्र गुणीभावः, न वाच्यसिद्ध्यङ्गतया । यथा वा'मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम् ।
धृतशाझ्गदारिनन्दक प्रतिकर्षन्ति कथं न वीक्षसे ॥' अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन खामिभृत्यभावेनैक निष्पन्नशरीरस्य प्रकर्षकं धृतशाजेत्यादिविशेषणम् । अमोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभिः कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्मवित्री तवेत्याकूतगर्भम् । ननु निष्प्रयोजनविशेषणोपादाने पुष्टार्थदोषस्योक्तत्वात्सप्रयोजनविशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति, न त्वलंकार इति । अत्र विमर्शिनीकारादय आहुः-'विशेषणानां बहुत्वमत्र विवक्षितम् । साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशयः । एकविशेषणं तु दोषाभावमात्रस्यावकाशः' इति । तदसत् । विशेषणानेकत्वं हि व्यङ्ग्याधिक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम । न तु प्रकृतालंकारशरीरमेव तदिति शक्यं वक्तुम् । वीचिक्षालितकालियाहित. पदे इति प्रागुक्ते एकस्यैव विशेषणस्य चमत्कारिताया अनपह्नवनीयत्वात् ।
'अयि लावण्यजलाशय तस्या हा हन्त मीननयनायाः।
दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ॥' अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्च ।
तयोः पादयोः । खशब्देन नाशनशक्तिः । पूर्वमेव कृष्णावतारात्प्रथममेव । अर्वाक् कृष्णजन्मानन्तरम् । एवमग्रेऽपि । उपसंहरति-एवं हीति । प्रकारान्तरेण सिद्धायास्तस्या विशेषणेन पोषणे हीत्यर्थः । मदेति । विष्णुं प्रति भक्तोक्तिः । वत्पुर एव बदन एव । तावकं माम् । अरिशब्देन चक्रम् । अपुष्टार्थेति । अपुष्टार्थवेत्यर्थः । एवमग्रेऽपि । कष्टत्वादीति । यथा कष्टवाद्यभावो दोषाभावमात्रं न खलंकारस्तथेत्यर्थः । अत्र परिकरलक्षणे । चो हेतौ । अत्र परिकरे। हि यतः । तत् विशेषणानेकलम् । अयीति । नायिकावृत्तान्तं नायकं प्रति कश्चिद्वक्ति-अभावेनेति । ताव.