________________
३८६ .
काव्यमाला । अथ परिकरःविशेषणानां साभिप्रायत्वं परिकरः॥
तच्च प्रकृतार्थोपपादकचमत्कारिव्यङ्ग्यकत्वम् । अत एवास्य हेत्वलंकाराद्वैलक्षण्यम् । तत्र व्यङ्ग्यस्यानावश्यकत्वात् । उपपादकता चोपस्कारकनिष्पादकसाधारणी । व्यङ्गयस्य गुणत्वाच न ध्वनित्वं व्यपदिश्यते । यथा'मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैः
स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभिः । वीचिक्षालितकालियाहितपदे खर्लोककल्लोलिनि
त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मनः ॥' अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदूरीकरणस्याशंसनं हि वाक्यार्थः । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परिणामेन भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं तावत्सूपपादमेव। 'स्थास्नुजङ्गमसंभूतविषहन्यै नमो नमः' इत्याद्यागमबलाच्च विषयतादात्म्य विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभावसिद्धमेव । एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्य विशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि । अत्र नामान्तरस्य सत्त्वेऽपि कालियाहितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनिःसारीकृतकालिये लोकोत्तरविषहरणशक्तिरुत्पत्तिसिद्धवासीत् । सा च तयोर्वीचिभिः क्षालनाद्गङ्गायां
परिकरं लक्षयति-विशेषणेति । तच साभिप्रायलं च । अत एवेत्यस्यार्थमाहतत्रेति । हेखलंकार इत्यर्थः । ध्वनावतिव्याप्तिवारणाय प्रकृतार्थोपपादकेति । परिकराकरेऽतिव्याप्तिवारणाय विशेषणेति । मीलितं निमीलितम् । स्रस्तं गलितम् । गरुडसंबन्ध्युपलै रक्तमणिभिश्च । वीचिभिः क्षालितौ कालीयाख्यसर्पशत्रुकृष्णपादौ यया तत्संबोधनम् खर्गङ्गे । संसाररूपसर्पदष्टात्मन इत्यर्थः । 'प्रार्थने लोट्' इत्याशयेनाह-आशंसनमिति । तत्र वाक्यार्थे । परिणामेन तदलंकारेण । तथा च मयूरव्यंसकादित्वात्समासो वोध्यः। तादर्थ्यापत्त्या व्यालरूपविषयिणीति शेषः। आगमेति । पुराणेत्यर्थः। आधानाय तत्करणाय । नामान्तरेति । वीचिक्षालितवासुदेवचरणे इत्यादेरित्यर्थः । सा शक्तिः।